________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
२ स्थानपदे -
प्रत
मज्ञापनायाः मलयवृत्ती. ॥५॥
सूत्राक
स्थानानि सू. ३९
[३९]
दीप
सतीति भावः पञ्चसु महाविदेहेषु, इयमत्र भावना-व्याघातो नाम अतिलिग्धोऽतिरूक्षो वा कालः, तस्मिन् सत्य- |ग्निव्यवच्छेदात्, ततो यदा पञ्चसु भरतेषु पश्चखरावतेषु सुषमसुषमासुपमासुषमदुष्पमा वा वर्तते तदाऽतिनि- ग्धः कालः दुष्पमदुष्षमायां चातिरूक्ष इत्यस्ति व्यवच्छेदः तस्मिन् सति पञ्चसु महाविदेहेषु, शेषकालं पश्चदशखपि कर्मभूमिपु, 'एत्थ णं' इत्यादि, अत्र-एतेषु स्थानेषु बादरतेजःकायिकानां स्थानानि प्रज्ञप्तानि, 'उयवाएणं' इत्यादि. 'उपपातेन' यथोक्तस्थानप्राप्त्याऽऽभिमुख्येन, अपान्तरालगतावपीति भावः, चिन्यमाना लोकस्यासंख्येये भागे, स्तोकत्वात् , समुद्घातेनापि चिन्त्यमाना लोकस्यासंख्येये भागे, मारणान्तिकसमुद्घातवशतो विक्षिप्तात्मप्रदेशदण्डानामपि स्तोकतया लोकासंख्येयभागमात्रव्यापित्वात् , स्वस्थानेन लोकस्यासंख्येयभागे, मनुष्यक्षेत्रस्य पञ्चचत्वारिंशयोजनलक्षप्रमाणायामविष्कम्भतया लोकासंख्येयभागमात्रत्वात् । अपर्याप्तवादरतेजःकायिकस्थानानि पृच्छति–'कहि णं भंते !' इत्यादि प्रश्नसूत्रं गतार्थ, भगवानाह-'गोयमा।' इत्यादि, गौतम ! यत्रैव वादरतेजःकायिकानां पर्याप्तानां स्थानानि तत्रैव बादरतेजःकायिकानामपर्याप्तानामपि स्थानानि प्रज्ञसानि, पर्याप्तनिश्रयैवापर्याप्तानामवस्थानात् , 'उववाएणं लोगस्स दोसु उड्डकवाडेसु तिरियलोयतट्टे य' इति, इहार्धतृतीयद्वीपसमुद्रनिःमृते अर्द्धतृतीयद्वीपसमुद्रप्रमाणबाहल्ये पूर्वापरदक्षिणोत्तरखयम्भूरमणपर्यन्ते ये कपाटे केवलिसमुद्घातकपाटवत् ऊर्द्धमपि लोकान्तं स्पृष्टे ते अधोऽपि च लोकान्तं स्पृष्टे ते ऊर्द्धकपाटे तयोः ऊर्द्धकपाटयोः, तथा 'तिरियलोयतहे|
अनुक्रम [१९२]
~162~