________________
आगम (१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [...३७] + गाथा:(१०८-१२८) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३७]
गाथा:
II भिकालते सर्वकासा-सर्वाण्येव दर्शनानि शोभनानीत्येवमनुचिन्तनं, इयं च द्विधाऽप्ययुक्ता, शेषदर्शनेषु षड्जीवनि
कायपीडाया असत्प्ररूपणायाश्च भावात् । तथा विचिकित्सा-मतिविभ्रमः फलं प्रति संशय इतियावत् निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सा, 'साध्वेवं जिनशासनं, किन्तु प्रवृत्तस्य सतो ममास्मात् फलं भविष्यति । न वा ?, क्रियायाः कृषिवलादिषु उभयथाऽप्युपलब्धेः' इतिविकल्परहितः, न विकल उपाय उपेयवस्तुप्रापको न भवतीति संजातनिश्चयो निर्विचिकित्स इति भावः, एतावताशेन निःशङ्किता भिन्नः, यद्वा 'निविदुगुंछो' इति । निर्विद्वज्जुगुप्सः साधुजुगुप्सारहित इत्यर्थः, उदाहरणं च विद्वजुगुप्सायां श्रावकदुहिता । तथा 'अमूढदिट्टी यत्ति' वालतपखितपोविद्यातिशयदर्शनैर्न मूढा-स्वभावाचलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अनोदाहरणं सुलसाश्राविका, सा सम्बङपरित्राजकसमृद्धीरुपलभ्यापि न संमोहं गता । तदेवं गुणिप्रधान आचार उक्तः, सम्प्रति गुणप्रधानमाह-'उपवूह' इत्यादि, उपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तदृद्धिकरणं, स्थिरीकरणं धर्माद् विषीदतां तत्रैव स्थापनं । वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं समानधार्मिकाणां प्रीत्योपकारकरणं, प्रभावना धर्मकथादिभिस्तीर्थप्रख्यापना । अयं च गुणप्रधाननिर्देशो गुणगुणिनोः कथञ्चिदभेदख्यापनार्थः, अन्यथा एकान्ताभेदे गुणनिवृत्ती गुणिनोऽपि निवृत्तः
दीप अनुक्रम [१६६-१९०]
अ.१९G
ana
~133~