SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३७] + गाथा: दीप अनुक्रम [१६६ -१९०] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [१], ------------- GERIT: [-], ---------- GTR [-], ------------ मूल [... ३७] + गाथा : (१०८-१२८) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना याः मल य० वृत्ती. ॥ ५९ ॥ केवलया रोचते, कथम् ? इत्याह-एवमेतत् प्रवचनो कमर्थजातं नान्यथेति एव आज्ञारुचिर्नाम । सूत्ररुचिमाह-'जो सुत्तं' इत्यादि, यः सूत्रम् - अङ्गप्रविष्टमङ्गवाद्यं वा अधीयानस्तेन श्रुतेनाङ्गप्रविष्टेनाङ्गवायेन वा सम्यक्त्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । बीजरुचिमाह - 'एगपएणेगाई' इत्यादि, एकेन पदेन प्रक्रमाज्जीवादीनामनेकानि पदानि - प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु जीवादिषु पदेषु यः सम्यक्त्वमिति धर्मधर्मिणोरभेदोपचारात् सम्यक्त्ववान् आत्मा प्रसरति तुशब्दोऽवधारणार्थः प्रसरत्येव, कथम् ? इत्याह- उदक इव तैलविन्दुः किमुक्तं भवति ? - यथा उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातव्यः । अधिगमरुचिमाह-' सो होइ' इत्यादि, यस्य श्रुतज्ञानमतो दृष्टमेकादशाङ्गानि, प्रकीर्णकमित्यत्र जातावेकवचनं, ततोऽयमर्थः- प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः चशब्दादुपाङ्गानि च स भवत्यधिगमरुचिः । विस्ताररुचिमाह-'दवाण' इत्यादि, द्रव्याणां धर्मास्तिकायादीनामशे पाणामपि सर्वे भावाः- पर्याया यथायोगं सर्वप्रमाणैः - प्रत्यक्षादिभिः सर्वैश्च नयविधिभिः - नैगमादिनयप्रकारैः उपलब्धाः स विस्ताररुचिरिति ज्ञातव्यः सर्ववस्तुपर्यायप्रपश्चावगमेन तस्या रुचेरतिनिर्मलरूपतया भावात् । क्रियारुचिमाह - 'दंसण' इत्यादि, दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं समाहारो द्वन्द्वः तस्मिन् तथा तपसि - विनये च तथा सर्वासु समितिषु - ईर्यासमित्यादिषु सर्वासु च गुसिषु-मनोगुप्तिप्रभृतिषु यः क्रियाभावः स क्रियारु Education international For Parts Only ~130~ १ प्रज्ञाप नापदे म नुष्यप्रज्ञा. (सू.३७) ।। ५९ ।।
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy