________________
आगम
(१५)
प्रत
सूत्रांक
[३७]
+
गाथा:
दीप
अनुक्रम
[१६६
-१९०]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [१],
------------- GERIT: [-], ---------- GTR [-], ------------ मूल [... ३७] + गाथा : (१०८-१२८) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य० वृत्ती.
॥ ५९ ॥
केवलया रोचते, कथम् ? इत्याह-एवमेतत् प्रवचनो कमर्थजातं नान्यथेति एव आज्ञारुचिर्नाम । सूत्ररुचिमाह-'जो सुत्तं' इत्यादि, यः सूत्रम् - अङ्गप्रविष्टमङ्गवाद्यं वा अधीयानस्तेन श्रुतेनाङ्गप्रविष्टेनाङ्गवायेन वा सम्यक्त्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । बीजरुचिमाह - 'एगपएणेगाई' इत्यादि, एकेन पदेन प्रक्रमाज्जीवादीनामनेकानि पदानि - प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु जीवादिषु पदेषु यः सम्यक्त्वमिति धर्मधर्मिणोरभेदोपचारात् सम्यक्त्ववान् आत्मा प्रसरति तुशब्दोऽवधारणार्थः प्रसरत्येव, कथम् ? इत्याह- उदक इव तैलविन्दुः किमुक्तं भवति ? - यथा उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातव्यः । अधिगमरुचिमाह-' सो होइ' इत्यादि, यस्य श्रुतज्ञानमतो दृष्टमेकादशाङ्गानि, प्रकीर्णकमित्यत्र जातावेकवचनं, ततोऽयमर्थः- प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः चशब्दादुपाङ्गानि च स भवत्यधिगमरुचिः । विस्ताररुचिमाह-'दवाण' इत्यादि, द्रव्याणां धर्मास्तिकायादीनामशे पाणामपि सर्वे भावाः- पर्याया यथायोगं सर्वप्रमाणैः - प्रत्यक्षादिभिः सर्वैश्च नयविधिभिः - नैगमादिनयप्रकारैः उपलब्धाः स विस्ताररुचिरिति ज्ञातव्यः सर्ववस्तुपर्यायप्रपश्चावगमेन तस्या रुचेरतिनिर्मलरूपतया भावात् । क्रियारुचिमाह - 'दंसण' इत्यादि, दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं समाहारो द्वन्द्वः तस्मिन् तथा तपसि - विनये च तथा सर्वासु समितिषु - ईर्यासमित्यादिषु सर्वासु च गुसिषु-मनोगुप्तिप्रभृतिषु यः क्रियाभावः स क्रियारु
Education international
For Parts Only
~130~
१ प्रज्ञाप
नापदे म
नुष्यप्रज्ञा.
(सू.३७)
।। ५९ ।।