________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-], ---------- दारं -1, ----------- मूलं [...३७] + गाथा:(१०८-१२८) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३७]
गाथा:
vedeoececest
धम्मरुइत्ति' रुचिशब्दस्यात्रापि प्रत्येकं संबन्धात् क्रियारुचिः संक्षेपरुचिधर्मरुचिरिति द्रष्टव्यं, तत्र क्रिया-सम्यक-18 |संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः, संक्षेपः-संग्रहः तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स संक्षेपरुचिः धर्मअस्तिकायधर्मे श्रुतधर्मादी वा रुचिर्यस्य स धर्मरुचिरिति गाथासंक्षेपार्थः ॥ व्यासार्थं तु सूत्रकृदेव खत आह-'भूय-18 त्थेण' इत्यादि, 'भूयत्थेण' इति भावप्रधानो निर्देशः, ततोऽयमर्थः-भूतार्थत्वेन-सद्भता अमी पदार्था इत्येवंरूपेण [यस्याधिगताः-परिज्ञाता जीवाजीयाः पुण्यं पापमाश्रवं संवरः चशब्दाद् बन्धादयश्च, कथमधिगताः इत्याह-'सहसम्मुइआ' इति आर्षवाद विभक्तिलोपाय सहसंमत्या सह-आत्मना या संगता मतिः सा सहसंमतिः तया, किमुक्त भवति-परोपदेशनिरपेक्षया जातिस्मरणप्रतिभादिरूपया मत्या, न केवलमधिगताः, किन्तु तान् जीवादीन् पदा-18 र्थान् वेदयतेऽनुरोचयति च तत्त्वरूपतयाऽऽत्मसात्परिणामयति चेति भावः, एष निसर्गरुचिर्विज्ञेय इति शेषः । अमुमेवार्थ स्पष्टतरमभिधित्सुराह-'जो जिणदिटे भावे' इत्यादि, यो जिनदृष्टान् भावान् द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुर्विधान् स्वयमेव-उपदेश निरपेक्षः श्रद्दधाति, केनोलेखेन श्रद्दधाति , तत आह-'एवमेव एतत्-जीवादि यथा जिनष्टं नान्यथा इति, चः समुच्चये, एष निसर्गरुचिरिति ज्ञातव्यः ॥ उपदेशरुचिमाह-एए चेव' इत्यादि, एतानेव जीवादिभावान् परेण छद्मस्थेन जिनेन वोपदिष्टान् श्रद्दधाति एष उपदेशरुचिरिति ज्ञातव्यः। आज्ञारुचिमाह-'जो हेउमयाणतो' इत्यादि, यो हेतु-विवक्षितार्थगमकमजानानः प्रवचनमाज्ञयैव तुशब्द एवकारार्थः
दीप अनुक्रम [१६६-१९०]
SAREucational
~129