________________
आगम
[भाग-१८] “प्रज्ञापना".
पदं [१], --------------- उद्देशक: -,---------------दारं -,--------------- मूलं [३७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३७]
1-सुकुमारश्लक्ष्णप्रविरलरोमकुरुविन्दवृत्तजङ्घायुगला निगूढसुबद्धसंधिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवसरश-8
कटीप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनाभिमण्डलाः श्रीवत्सलाभिछतविशालमांसलवक्षःस्थलाः पुरपरिघाऽनुकारिदीर्घवाहवः सुश्लिष्टमणिबन्धा रक्तोत्पलपत्रानुकारिशोणपाणिपादतलाः चतुरङ्गुलप्रमाणसमवृत्तकम्बुग्रीवाः शारदशशाङ्कसीम्यवदनाः छत्राकारशिरसोऽस्फुटितस्निग्धकान्तिश्चक्ष्णमूर्द्धजाः कमण्डलु कलश यूंपैस्तूंप बोपी ध्वज पताका सौवस्तिक या मत्स्य मकर कर्म रथवर स्थीलांशुकाष्टीपर्दाईश सुप्रतिष्ठक मयूर श्रीदामाभिषेक तोरण में[दिनी जलधि वरभवनादर्शपर्वतगजवषमसिंहच्छत्रचामररूपप्रशस्तोत्तमद्वात्रिंशलक्षणधराः । स्त्रियोऽपि सुजातसङ्गिसुन्दर्यः समस्तमहेलागुणसमन्विताः संहताङ्गुलिपद्मदलवत्सुकुमारकूर्मसंस्थानमनोहारिचरणा रोमरहितप्रशस्तलक्षणोपेतजलायुगला निगूढमांसलजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाणत्रिगुणांसलविशा- लजघनधारिण्यः स्निग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयः प्रदक्षिणावर्ततरङ्गभङ्गुरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः संगतपार्थाः कनककलशोपमसंहितात्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिकशङ्खचक्राधाकृतिलेखालङ्कतपाणिपादतलाः वदनविभागोच्छूितमांसलकम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुकारिशोणिमाधरौष्ठा रक्तोत्पलतालुजिह्वा विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसंगतभूलतिकाः प्रमाणोपपन्नललाटफलकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः पुरुषेभ्यः किश्चिदूनोच्छ्रायाः स्वभावत उदारकारचारुषेषाः
दीप अनुक्रम [१६६]
9909090sassaeraaeness
W
amera
~117~