________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना".
पदं [१], --------------- उद्देशक: -1, --------------- दारं-1, --------------- मूलं [३७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक [३७]]
॥५२॥
दीप अनुक्रम [१६६]
प्रज्ञापना- वरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामा- प्रज्ञापयाः मल- नश्चत्वारो द्वीपाः । तत एतेषामश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टावष्टौ यो-1 य० वृत्ती.
जनशतान्यतिक्रम्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपनवरवे- नुष्यप्रज्ञा. दिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातोऽष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्ताभि
(सू.३६) धानाचत्वारो द्वीपाः । ततोऽमीषामपि उल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक नव नव योजनशतान्यतिक्रम्य नवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपा। यथोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातो नवयोजनशतप्रमाणान्तरा घनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः । एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसंख्ययाऽष्टाविंशतिः, एवं हिमवत्तुल्यवर्णप्रमाणे पद्महदप्रमाणायामविष्कम्भावगाहपुण्डरीकहूदोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तरासु चतसृषु विदिक्षु व्यवस्थिता एकोरुकादिनामानोऽक्षणापान्तरालायामवि
५२॥ कम्भा अष्टाविंशतिसंख्या दीपा वक्तव्याः, सर्वसंख्यया षट्पञ्चाशदन्तरद्वीपाः, एतद्गता मनुष्या अप्येतनामानः
उपचारात्, भवति च तात्स्थ्यात् तद्ववपदेशः, यथा पञ्चालदेशनिवासिनः पुरुषाः पश्चाला इति, ते च मनुष्या वज्रशिर्षभनाराचसंहननिनः कङ्कपक्षिपरिणामा अनुलोमवायुवेगा समचतुरस्रसंस्थानाः, तद्यथा-सुप्रतिष्ठितकूर्मचारुचरणाः
chaesesta
For P
OW
~116