________________
आगम
(१५)
प्रत
सूत्रांक
[३५]
दीप
अनुक्रम [१६२]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
. दारं [ - ], --------
• मूलं [३५]
पदं [१], --------------- उद्देशक: [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
चरपञ्चेन्द्रियतैर्यग्योनिकभेदानुपदिदर्शयिपुरिदमाह-'से किं तं उरपरिसप्प' इत्यादि, अथ के ते उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः?, सूरिराह - उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - अयोऽजगरा आसालिगा महोरगाः ॥ एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राण्याह - 'से किं तं' इत्यादि, अथ के तेऽहयः ?, गुरुराह- अहयो द्विविधाः प्रज्ञप्ताः, तद्यथादर्वीकराश्च मुकुलिनश्च, तत्र दवव दव-फणा तत्करणशीला दर्वीकराः, मुकुलं-फणाविरहयोग्या शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः, फणाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दी स्वगतानेकभेदसूचकौ । तत्र दर्बीकरभेदानभिधित्सुराह - 'से किं तं' इत्यादि, आश्यो- दंष्ट्राः तासु विषं येषां ते आशीविषाः, उक्तं च-- "आसी दाढा तग्गयविसा य आसीविसा मुणेयचा" इति, दृष्टौ विषं येषां ते दृष्टिविषाः उग्रं विषं येषां ते उग्रविषाः भोगः शरीरं तत्र विपं येषां ते भोगविषाः त्वचि विषं येषां ते त्वविषाः प्राकृतत्वाच्च 'तयाविसा' इति पाठः लाला-मुखात् स्रावः तत्र विषं येषां ते लालाचिपाः निःश्वासे विषं येषां ते निःश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रतिपत्तव्याः, उपसंहारमाह-- 'सेत्तं दधीकरा । मुकुलिनः प्रतिपिपादयिषुरिदमाह से किं तं' इत्यादि, एतेऽपि लोकतोऽवसेयाः । अजगराणामवान्तरजातिभेदा न विद्यन्ते तत उक्तम्- एकाकारा अजगराः प्रज्ञप्ताः । आसा लिगामभिधित्सुराह—' से किं तं आसालिया' अथ का सा आसालिगा ?, एवं शिष्येण प्रश्ने कृते सति भगवान् आर्यश्यामो यदेव ग्रन्थान्तरेषु आसालिगाप्रतिपादकं गौ
For Parts Only
~105~