SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३५] दीप अनुक्रम [१६२] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) . दारं [ - ], -------- • मूलं [३५] पदं [१], --------------- उद्देशक: [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः चरपञ्चेन्द्रियतैर्यग्योनिकभेदानुपदिदर्शयिपुरिदमाह-'से किं तं उरपरिसप्प' इत्यादि, अथ के ते उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः?, सूरिराह - उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - अयोऽजगरा आसालिगा महोरगाः ॥ एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राण्याह - 'से किं तं' इत्यादि, अथ के तेऽहयः ?, गुरुराह- अहयो द्विविधाः प्रज्ञप्ताः, तद्यथादर्वीकराश्च मुकुलिनश्च, तत्र दवव दव-फणा तत्करणशीला दर्वीकराः, मुकुलं-फणाविरहयोग्या शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः, फणाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दी स्वगतानेकभेदसूचकौ । तत्र दर्बीकरभेदानभिधित्सुराह - 'से किं तं' इत्यादि, आश्यो- दंष्ट्राः तासु विषं येषां ते आशीविषाः, उक्तं च-- "आसी दाढा तग्गयविसा य आसीविसा मुणेयचा" इति, दृष्टौ विषं येषां ते दृष्टिविषाः उग्रं विषं येषां ते उग्रविषाः भोगः शरीरं तत्र विपं येषां ते भोगविषाः त्वचि विषं येषां ते त्वविषाः प्राकृतत्वाच्च 'तयाविसा' इति पाठः लाला-मुखात् स्रावः तत्र विषं येषां ते लालाचिपाः निःश्वासे विषं येषां ते निःश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रतिपत्तव्याः, उपसंहारमाह-- 'सेत्तं दधीकरा । मुकुलिनः प्रतिपिपादयिषुरिदमाह से किं तं' इत्यादि, एतेऽपि लोकतोऽवसेयाः । अजगराणामवान्तरजातिभेदा न विद्यन्ते तत उक्तम्- एकाकारा अजगराः प्रज्ञप्ताः । आसा लिगामभिधित्सुराह—' से किं तं आसालिया' अथ का सा आसालिगा ?, एवं शिष्येण प्रश्ने कृते सति भगवान् आर्यश्यामो यदेव ग्रन्थान्तरेषु आसालिगाप्रतिपादकं गौ For Parts Only ~105~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy