________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
- मूलं PUSTA
प्रत सूत्रांक [१४७]
दीप अनुक्रम [१८५]
ML परस्परं नालप्रवेशेन संयोज्यते, प्रन्थिमं च वेष्टिमं च पूरिमं च सङ्घात्तिमं चेति समाहारो द्वन्द्वस्तेन माल्येन छेकशिस्पिना-परमदक्षण।
शिल्पिना विभागरहितेन यद् यत्र योग्यं प्रन्धिमं वेष्टिमं पूरिमं सङ्घातिमं च तत्र तेन सर्वत:-सर्वासु दिक्षु समनुबद्धं. तथा प्रविरलैः -लम्बमानैः, तत्र विरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनार्थमाह-विप्रकृष्टैः-बृहदन्तरालैः पञ्चवर्णैः कुसुम-15 दामभि: शोभमानं 'वणमालाकयग्गए चेवेति वनमाला-चन्दनमाला कृताइ यस्य तद् वनमालाकृतामं तथाभूतं सद् दीप्यमानं, तथैव चित्राङ्गका अपि नाम द्रुमगणा अनेकबहुविविधविखसापरिणतेन प्रन्थिमवेष्टिमपूरिमसङ्घातिमेन चतुर्विधेन माल्यविधिनोपपेता: कुशविकुशविशुद्धबृक्षमूला मूलवन्त इत्यादि यावत्पतिरूपकाः ६॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम हुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन !, यथा तत्परमानं-पायसं भवेदिति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धा:-प्रवरगन्धोपेता:, समासान्तविधेरनित्यत्वादतपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणा इत्यत्र, बरा:-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसंपादितामलामा इति भावः, कमलशालितन्दुलाः, यच विशिष्ट-विशि-16 प्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं ते रार्द्ध-पर्क परमकलमशालिभिः परमदुग्धेन च यथोचितमात्रापाकेन । निष्पादितमित्यर्थः. तथा शारदं घृतं गुडः खण्ड मधु वा शर्करापरपर्यायं मेलितं यत्र तत् शारदघृतगुडखण्डमधुमेलितं, निष्ठान्तस्य परनिपातः प्राकृतलात मुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत् , यथा वा राशचक्रवर्तिनो भवेत् कुशलैः सूपपुरुषः-सूपकारैः पुरुषैः सजितो-निष्पादित: चतुष्कल्पसेकसिक्त इबौदनः, चत्वारश्च कल्पा: सेकविषया रसवतीशास्त्राभिज्ञेभ्यो भावनीयाः, स चौदनः किंविशिष्टः इत्याह-कलमशालिनिर्वतित:-कलमशालिमयो विपको-विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसक
~83~