SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] ४ अतिमुक्तकलताः कुन्दलता: श्यामलताः, एताः सुप्रतीताः, 'निचं कुसुमियाओं' इत्यादि विशेषणजातं प्राग्वत् 'जाब पडिरूवाओ' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र सत्र प्रदेशे बहयो धनराजयः प्रजभाः, इन्हैकानेकजातीयानां वृक्षाणां पतयो वनराजयस्तत: पूर्वोतसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुत्य, ताञ्च बनराजयः प्रज्ञप्ताः कृष्णाः कृष्णावभासा इत्यादि विशेषणजातं प्राग्वत् ताबद्धक्तव्यं यावत् अणेगरहजाणजुम्गगिल्लिथिल्लिसीयर्सदमाणियपडिमोयणाओ सुरम्माओ जाव पडिरूवाओ' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मत्ताङ्गका नाम दुमगणाः प्रज्ञाप्रा हे श्रमण! हे आयुष्मम् !, किंविशिष्टास्ते ? इत्याह-यथा से चंदप्पभमणिसलाग' इत्यादि, यथा चन्द्रप्रभादयो मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा, मणिशलाकेव मणिशलाका, वरं च तन् सीधु च वरसीधु, बरा च सा वारुणी च वरवारुणी 'सुजाबपुन्नपुष्फलयोयनिजाससारबहुदबजुत्तिसंभारकालसंधियआसव' इति इहासव:-पत्रादिवासकद्रव्यभेदादनेकप्रकारः, तथा चोक्तं प्रज्ञापनायां लेश्यापदे रसचिन्तावसरे-पत्तासवेइ वा पुष्फासवेइ वा फलासवेइ वा चोयासवेइ वा' ततोऽत्र निर्याससारशब्दः पत्रादिभिः सह प्रत्येकमभिसम्बन्धनीयः, पत्रनियोससारः पुष्पनिर्याससारः फलनिर्याससारश्रोयनिर्याससारः, तत्र पत्रनिर्यासो-धातकीपत्ररसस्तत्प्रधान आसवः पत्रनियाँससारः, एवं पुष्पनिर्याससारः फलनिर्याससारश्च परिभावनीयः, चोयो-गन्धद्रव्यं तन्निससारश्चोयनिर्याससारः, सुजाता:-सुपरिपाकागताः, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनां द्रव्याणामुपहकाणां युक्तयो-मीलनानि तासां संभार:-प्राभूत्यं येपु ते बहुद्रव्ययुक्तिसंभाराः, पुनः कथम्भूताः ? इत्याह-कालसंधिय' इति कालसन्धिनाः सन्धान सन्धा काले-खस्योचित सन्धा कालसन्धा सा संजातपामिति कालसन्धिता, वारकादिदर्शनादि जोच.४५ Jame! ~77
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy