SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] S दीप अनुक्रम [१८५] जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे मन्दरपर्वतस्य 'उत्तरेण उत्तरत: नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य । वक्षस्कारपर्वतस्य 'पुरस्थिमेणंति पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायाम् 'अत्र' एतस्मिन् प्रदेश उत्तरकुरवो| नाम कुरवः प्रजाताः, सूत्र एकवचननिर्देशोऽकारान्त तानिर्देशश्च प्राकृतत्वान् , ताश्च कथम्भूताः? इत्याह-पाईणे'त्यादि। प्राचीनापाचीनायता उदग्दक्षिणविस्तीर्णा अर्द्धचन्द्रसंस्थानसंस्थिता एकादश योजनसहस्राण्यष्टौ योजनशतानि 'द्विचत्वारिंशानि'। द्विचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य 'विष्कम्भेन' दक्षिणोचरतया विस्तारण, तथाहि-महाविदेहे मेरोरुत्तरत | उत्तरकुरवो दक्षिणतो दक्षिणकुरवः, ततो यो महाविदेहक्षेत्रस्य विष्कम्भस्तस्मान्मन्दरविष्कम्भे शोधिते यदवशिष्यते तवार्ड | यावत्परिमाणमेतावत्प्रत्येक दक्षिणकुरूणामुत्तरकुरूणां च विष्कम्भः, उक्तं च-"बइदेहा विक्खंभा मंदरविक्खंभसोहियद्धं जं । कुरुविक्षों जाणम्” इति, स च यथोक्तप्रमाण एव, तपाहि-महाविदेहे विष्कम्भन्त्रयस्त्रिंशद् योजनसहस्राणि षट् शतानि | चतुरशीत्यधिकानि योजनानां चतस्रः कला: ३३६८४ क०४, एतस्मान्मेरुविष्कम्भो दश योजनसहस्राणि शोध्यन्ते १०००० खितानि पश्चात्रयोविंशतिः सहस्राणि पट् शतानि चतुरशीत्यधिकानि योजनानां चतसः कला: २३६८४ क० ४, एतेषामढे लब्धान्येकादश सहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानां च कले ११८४२ ० २॥ 'तीसे' इत्यादि, तासामुत्तरकुरूणां जीवा उत्तरतो नीलवर्षधरसमीपे प्राचीनापाचीनायता उभवतः पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं यथाक्रमं माल्यवन्तं गन्धमादनं च 'स्पृष्टा' स्पृष्टवत्ती, एतदेव भावयति-पुरथिमिल्लाए' इत्यादि, पूर्वया 'कोट्या' अग्रभागेन पूर्व वक्षस्कारपर्वतं माल्यवदभिधानं 'स्पृष्टा' स्पृष्टवती 'पश्चिमया' पश्चिमदिगवलम्विन्या कोट्या पश्चिमवक्षस्कारपर्वसं गन्धमादनास्यं स्पृष्टा, सा च जीवा SCRACK JaEarnal ~73
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy