________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [४], --------------------- उद्देशक: -, ------------------- मूलं [२२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[૨૪]
44
--
विशिष्टान्यपि पञ्च स्थितिसूत्राणि सुप्रतीतानि, नवरमुत्कर्षतो द्वाविंशतिवर्षसहस्रादीन्यन्तर्मुहूर्तोनानि, अपर्याप्तककालेनान्तर्मुहर्तेन हीनत्वात् ।। सम्प्रति कायस्थितिप्रतिपादनार्थमाह-एगिदिए णं भंते! एगिदिए'त्ति इत्यादि, जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृखा। द्वीन्द्रियादिपूत्पादान , उत्कर्पतोऽनन्तं कालं, अनन्तकालमेव निरूपयति-वनस्पतिकालः, वनस्पतिकाल सौकेन्द्रियत्वात् एकेन्द्रियपदे तस्यापि। परिग्रहात, वनस्पतिकालन प्रागेवोक्तः । द्वित्रिचतुरिन्द्रियसूत्रे सवयेयं कालं-सोयानि वर्षसहस्राणि "विगलिदिवाण वाससहस्सा संखेजा" इति वचनात् , पभेन्द्रियसूचे सातिरेकं सागरोपमसहस्रं, तच नैरयिकतिर्यपञ्चेन्द्रियमनुष्यदेवभवभ्रमणेन वेदितव्यं ।। 'एगिंदियापजत्लए ण भंते' इत्यादि, जघन्यत उत्कर्पतोऽन्तर्मुहूर्तमपर्याप्पलब्धेरेतावत्कालप्रमाणत्वात् , एवं शेषाण्यपि चत्वार्यपर्याप्तकसूत्राणि भावनीयानि, एकेन्द्रियपर्याप्तकसूत्रे सवषयानि वर्षसहस्राणि, एकेन्द्रियस्य हि पृथिवीकायस्योत्कर्षतो द्वात्रिंशतिवर्षसहस्राणि भयस्थितिः अप्कायस्य सप्त वर्षसहस्राणि तेजस्कायस्य त्रीणि रात्रिन्दिवानि वायुकायस्व त्रीणि वर्षसहस्राणि वनस्पतिकायस्व दश वर्षसहस्राणि, ततो निरन्तरकतिपयपर्याप्तभवसङ्कलनया साधेयान्येव वर्षसहस्राणि घटन्त इति । द्वीन्द्रियपर्याप्तसूत्रे उत्कर्षत: सधेयानि वर्षाणि, द्वीन्द्रियस्य हि उत्कर्षतो| भवस्थितिपरिमाणं द्वादश वर्षाणि न च सर्वेष्वपि भवेपूत्कृष्टा स्थितिस्ततः कतिपयनिरन्तरपर्याप्तभवसङ्कलनयापि सोयानि वर्षाण्येव लभ्यन्ते न तु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे सोयानि रात्रिन्दिवानि, तेषां भवस्थितरुत्कर्षतोऽप्येकोनपञ्चाशद्दिनमानतया कतिपयनिरन्तरपर्याप्तभवसङ्कलनायामपि सहयेयानां रात्रिन्दिवानामेव लभ्यमानत्वात् । चतुरिन्द्रियपर्याप्तसूत्रे सोया मासास्तेषां भवस्थितेरुत्फतः पण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तभवकालसङ्कलनया सोयानां मासानां प्राप्यमानलात् । पञ्चेन्द्रियपर्याप्तसूत्रे सागरोपमशतपृथक्वं सातिरेक, तच पूर्ववत् ॥ 'एगिंदियस्स णं भंते ! अंतरं कालतो केवचिर होइ?' इति
दीप
--
-
--
अनुक्रम [३४४]
-
जी०६९
~365