SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९८] कर दीप देवसाहस्सीओ परिवहंति, सीहरूषधारीणं देवाणं पंचदेवसता पुरथिमिल्लं बाहं परिवहंति एवं चउद्दिसिंपि ॥ (सू० १९८) 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं णमिति वाक्यालकारे भदन्त ! कति देवसहस्राणि परिवहन्ति ?, भगवानाह-गौतम!18 षोडश देवसहस्राणि परिवहन्ति, तद्यथा-पूर्वेण-पूर्वतः, एवं दक्षिणेन पश्चिमेन उत्तरेण, तत्र पूर्वेण सिंहरूपधारिणां देवानां चत्वारि सहस्राणि परिवहन्ति, दक्षिणेन गजरूपधारिणां देवानां चत्वारि सहस्राणि, पश्चिमेन वृषभरूपधारिणां देवानां चत्वारि सहस्राणि, उत्तरे-12 पाश्वरूपधारिणां देवानां चलारि देवसहस्राणि, इयमत्र भावना-चन्द्रादिविमानानि तथाजगत्स्वाभाव्यान्निरालम्बनान्येव वहन्त्यवतिष्ठन्ते,8 केबलमाभियोगिका देवास्ते तथाविधनामकर्मोदयवशात्समानजातीयानां हीनजातीयाना वा निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्ला केचिस्सिहरूपाणि केचिद्गजरूपाणि केचियभरूपाणि केचिदश्वरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, यथा हि कोऽपि तथाविधाभियोग्यनामकोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थ सर्वमपि खोचितं कर्म | नायकसमक्षं प्रमुदित: करोति, तथाऽऽभियोगिका देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इति निजस्कातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति । एवं सूर्यादिविमानविषवाण्यपि सूत्राणि भावनीयानि, अत्र जम्बूद्वीपप्रज्ञप्ति|सरके सहणिगाथे-"सोलस देवसहस्सा बहंति चंदेसु चेत्र सूरेसु । अद्वेष सहस्साई एककमि गह विमाणे ॥ १॥ चत्तारि सहस्साई अनुक्रम [३१५] ~311
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy