________________
आगम
(१४)
प्रत
सूत्रांक
[१८२]
दीप
अनुक्रम [२९३]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः)
प्रतिपत्ति: [३],
----- उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [१८२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ३५५ ॥
विष्कम्भादिवक्तव्यता पूर्ववद् यावज्जीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - ' से केणद्वेग 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदोदः समुद्रः २ १ इति, भगवानाह श्रोदोदस्य समुद्रस्योदकं यथा नाम भ्रूणां जात्यानां जात्यत्वमेवाह'वरपुंडगाणं' विशिष्टानां पुण्ड्रदेशोद्भवानां हरितानां शाडुलानां 'भेरण्डेक्षूणां वा' भरण्डदेशोद्भवानां वा इभ्रूणां 'कालपोराणं ति कृष्णपर्वणाम् उपरितनपत्रसमूहापेक्षया हरितालवत्पिञ्जराणाम् 'अपनीतमूलानाम्' अपनीतमू उत्रिभागानां त्रिभाग निर्वाटितवाटानां ऊर्द्धभागादपि त्रिभागहीनानामिति भावः मध्यत्रिभागावशेषाणामिति समुदायार्थः 'गंठिपरि सोहियाणं'ति ग्रन्थिः पर्वग्रन्थिः शो- + धितः-अपनीतो येभ्यस्ते तथा तेषां मूलन्निभागे उपरितनत्रिभागे पर्वग्रन्थौ च नातिसमीचीनो रस इति तद्वर्जनं क्षोदरसो भवेद् २ 'वस्त्रपरिपूत' ऋणवस्त्रपरिपूतः चतुर्जातकेन सुष्ठु अतिशयेन वासितधतुर्जातकवासितः, चतुर्जातकं त्वगेला केसराख्यगन्धद्रव्यमरिचालकं, उक्ता — "खगेलाकै सरैस्तुल्यं, त्रिसुगन्धं विजातकम् । मरिचेन समायुक्तं, चतुर्जातकमुच्यते ॥ १ ॥ " अधिकं-अतिशयेन पध्यं न रोगहेतुः लघुः परिणामः वर्णेन सामर्थ्यादतिशायिना उपपेतः एवं गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो दर्पणीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रहादनीयः एवमुक्ते गौतम आह— 'भवे एयारूवें' भवेद् भगवन ! भोदोदसमुद्रस्योदकमेत १, भगवानाह - गौतम ! नायमर्थः समर्थः, क्षोदोदस्य यस्मात्समुद्रस्योदकम् 'अस्मात्' यथोक्तरूपात्क्षोदरसादिष्टतरमेव यावन्मनआपतरमेवास्वादेन प्रज्ञप्तम् इह प्रविरलपुस्तकेऽन्यथाऽपि पाठो दृश्यते सोऽप्येतदनुसारेण व्याख्येयो, बहुषु तु पुस्तकेषु न दृष्ट इति न लिखितः पूर्णपूर्णप्रभा च यथाक्रमं पूर्वार्द्धाराधिपती 'अत्र' श्रोदोदे समुद्रे द्वौ देवौ महर्द्धिको यावत्पल्योपस्थितिको परिवसतः, ततः क्षोद इव क्षोदरस इवोदकं यस्य स क्षोदोदः, तथा चाह- 'से एएणद्वेणमित्यादि । चन्द्रादिसासूत्रं प्राग्वत् ॥
३ प्रतिपत्तौ
घृतवरघृतोदक्षोदवरक्षो
दोदाः
~258~
उद्देशः २
सू० १८२
।। ३५५ ।।
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्