________________
आगम
(१४)
प्रत
सूत्रांक [१७२
-१७३]
दीप
अनुक्रम
[२२२
२२३]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:)
------ उद्देशक: [ ( द्वीप समुद्र ) ],
मूलं [१७२-१७३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Ja Eber
प्रतिपत्ति: [३],
जनसहस्रप्रमाण उच्छ्रयः, किन्तु मध्यभाग एवं दशसहस्रप्रमाणविस्तारस्ततः कथं यथोक्तं धनगणितमुपपद्यते ? इति सत्यमेतत्, केबलं लवणशिस्यायाः शिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामेकान्तऋजुरूपायां दीयमानायां २ यदपान्तराले जलशून्यं क्षेत्रं तदपि करणगत्या तदाभाव्यमिति सजलं विवक्ष्यते, अत्रार्थे च दृष्टान्तो मन्दरपर्वतः तथाहि - मन्दरपर्वतस्य सर्वत्रैकादशभागपरिहाणिरूपवर्ण्यते, अथ च न सर्वत्रैकादशभागपरिहाणिः, किन्तु कापि कियती, केवलं मूलादारभ्य शिखरं यावदवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशपरिभागहानि परिवर्णयन्ति तद्वदिदमपि यथोक्तं पनपरिमाणमिति, न चैतत्वमनीषिकाविजृम्भितं यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामेतद्विचारप्रक्रमे "एवं उभयवेदयंताओ सोलसहरमुस्सेहस्स कन्नगईए जं लवणसमुद्दाभन्वं जलमुन्नपि खेत्तं तभ्स गणियं, जहा मंदरपव्वयस्स एकारसभागपरिहाणी कन्नगईए आगासरसवि तदाभव्वंतिकाउं भणिया तहा लवणसमुदस्सवि ||" इति || 'जइ णं * भंते!' इत्यादि, यदि भदन्त ! लवणसमुद्रो द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्त्राणि शतं चैकोनचत्वारिंशं किञ्चिद्विशेषानं परिक्षेपेण प्रज्ञतः, एकं योजनसहसमुद्वेधेन पोडश योजनसहस्राण्युत्सेधेन सप्तदश योजनसहस्राणि सर्वामेण प्रज्ञप्तः । तर्हि 'कम्हा णं भंते!' इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जम्बूद्वीपं द्वीपं न 'अवपीडयति' जलेन प्लावयति, न 'उत्पीडयति' ग्रावस्येन बाधते, नापि णमिति वाक्यालङ्कृती 'एकोदर्क' सर्वात्मनोदकलावितं करोति ?, भगवानाह - गौतम ! जम्बूद्वीपे भरतैरावतयोः क्षेत्रयोरन्तञ्चक्रवर्त्तिनो वलदेवा वासुदेवाः 'चारणाः' जङ्गाचारणमुनयो विद्याधराः 'श्रमणाः ' साधवः 'श्रमण्यः संयत्यः श्रावकाः श्राविकाः, एतत् सुषमदुष्पमादिकमरकनयमपेक्ष्योक्तं वेदितव्यं तत्रैवादादीनां यथायोगं सम्भ
For P&Praise City
~ 199~