________________
आगम
(१४)
प्रत
सूत्रांक
[१६२
-१६६]
+
गाथा
दीप
अनुक्रम [२०९
-२१६]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३/२ (मूलं + वृत्तिः)
प्रतिपत्ति: [३],
उद्देशक: [ ( द्वीप समुद्र)],
मूलं [ १६२ - १६६ ] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
स्वस्य चन्द्रद्वीपस्य स्वस्याश्चन्द्राभिधानाया राजधान्या अन्येषां च बहूनां ज्योतिषाणां देवानां देवीनां चाधिपत्यं यावद्विहरतः । तततोपलादीनां चन्द्राकारत्वाचन्द्रवर्णत्वाचन्द्रदेवस्या मिला तो चन्द्रद्वीप इति चन्द्राभिधे च राजधान्यौ तयोश्चन्द्रद्वीपयोः पूवैम्यां दिशि तिर्यगसोयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राण्यवगा विजयाराजधानीसदृश्यो वक्तव्ये । एवं जम्बूद्वीपगतसूरसत्कसूर्यद्वीपात्रपि वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एनमेत्र लवणसमुद्रमवगाह्य वक्तव्यं, राजधान्यावपि स्वकद्वीपयोः पश्चिमायां दिशि अन्यस्मिन् जम्बूद्वीपे वक्तव्ये, शेषं सर्व चन्द्रद्वीपवद्भावनीयं नवरं चन्द्रस्थाने सूर्यग्रहणमिति ॥ सम्प्रति लवणसमुद्रगत चन्द्रादित्यद्वीप वक्तव्यतामाह- 'कहि णं भंते!' इत्यादि, लवणे भवौ लावणिक अभ्यन्तरौ च तो लावणिकौ च अभ्यन्तरलावणिक शिखाया अर्वाकचारिणावित्यर्थः तयोः सूत्रे द्विवेऽपि बहुवचनं प्राकृतवान् शेषं सुगमं, भगवानाह - गौतम! जम्बूद्वीपस्य पूर्वस्यां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे अभ्यन्तरलावणिकयोश्चन्द्रयोअन्द्रद्वीपो नाम द्वीपो वक्तव्यों, इत्यादि जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवन्निरवशेषं वक्तव्यं, नवरमन्त्र राजधान्यौ खकीययोपयोः पूर्वस्यां दिशि अन्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाहा वेदितव्ये । एवमभ्यन्तरावणिक सूर्यसत्कसूर्यद्वीपावपि वक्तव्यो नवरं तौ जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्यो राजधान्यावपि स्वकीययोः द्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशः योजनसहस्राण्यवगाह्येति । 'कहि णं भंते!" इत्यादि के भदन्त ! वालावणिकयोश्चन्द्रयोधन्द्रद्वीपो नाम द्वीपो प्रज्ञप्तौ ?, बालावणिको नाम स्वणसमुद्रे शिखाया बहिचारिणौ चन्द्रौ भगवानाह गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तादवग् लवणसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यान वाह्यलावणिकयोश्चन्द्रयो
For P&Praise City
~ 183 ~