________________
आगम
(१४)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१४]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
प्रतिपत्तिः [१],
• उद्देशक: [ - ],
- मूलं [१३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jar in
आगतानि, कदाचित् चतसृभ्यः कदाचित्पच्चभ्यः काऽत्र भावना ? इति चेदुच्यते-इह लोक निष्कुटे पर्यन्तेऽधस्त्यप्रतराग्नेयकोणावस्थितो यदा सूक्ष्मपृथिवीकायिको वर्त्तते तदा तस्याधस्ताद्लोकेन व्याप्तत्वात् अधोदिक्पुद्गलाभाव: आग्नेयकोणावस्थितत्वात् पूर्वदिकपुद्गलाभावो दक्षिणदिकुपुद्गलाभावश्च, एवमघः पूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य या परिशिष्टा ऊर्ध्वाऽपरोत्तरा च दिगव्याहता वर्त्तते तत आगतान् पुद्रढानाहारयन्ति यदा पुनः स एव पृथिवीकायिकः पश्चिमां दिशमनुसृत्य वर्त्तते तदा पूर्वी दिग भ्यधिका जाता, द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याहते इवि स चतुर्दिगागतान् पुद्गलानाहारयति यदा पुनरुर्ध्वं द्वितीयादिप्रतरगतपश्चिमदिशमवलम्ब्य तिष्ठति तदाऽवस्त्यापि दिगभ्यधिका उभ्यते, केवला दक्षिणैवैका पर्यन्तवर्त्तिनी अलोफेन व्याहतेति पवदिगागतान् पुलानाहारयति । 'वण्णतो' इत्यादि वर्णतः कालनीललोहितहारिद्रशुक्लानि, गन्धतः सुरभिगन्धानि दुरभिगन्धानि वा, रसतस्तिकानि यावन्मधुराणि स्पर्शतः कर्कशानि यावद्र्क्षाणि तथा तेषामाहार्यमाणानां पुगलानां 'पुराणान्' अप्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् 'विपरिणामइत्ता परिपालइत्ता परिसाडइत्ता परिविद्धंसत्ता' एतानि चत्वार्यपि पदान्येकार्थिकानि विनाशार्थप्रतिपादकानि नानादेशज विनेयानुग्रहार्थमुपात्तानि, विनाशः किमित्याह-अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्यात्मशरीरक्षेत्रावगाढान् पुत्रवान् 'सव्यप्पणयाए' सर्वाअना - सर्वैरेवासप्रदेशेराहारमाहाररूपान् पुद्गलानाहारयन्ति || गतमाहारद्वारं, साम्प्रतमुपपात द्वारमाह - 'ते णं भंते' इत्यादि, ते मदन्त ! सूक्ष्मपृथिवीकायिका जीवाः 'कुतः' केभ्यो जीवेभ्य उद्धृत्योत्पद्यन्ते १, किं नैरविकेभ्यः ? इत्यादि प्रतीतं, भगवानाह - गौतम! नो नैरविक्रेभ्य इत्यादि पाठसिद्धं नवरं देवनैरविकेभ्य उत्पादप्रतिपेधो देवनैरविकाणां तथाभवस्वभावतया तन्मध्ये उत्पादासम्भवात्, 'जहा वर्कतीए' इति, यथा प्रज्ञापनायां व्युत्कान्तिपदे तथा
Fir P&Praise City
~51~