SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१३] दीप अनुक्रम [१४] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:) प्रतिपत्ति: [१], • उद्देशक: [ - ], - मूलं [१३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ २० ॥ | गप्याहारयन्ति तानि किमादाबाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति १, अयमत्राभिप्रायः - सूक्ष्मपृथिवीकायिका हानन्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त्तं कालं यावदुपभोगोचितानि गृह्णन्ति, ततः संशयः किमुपभोगोचितस्य कालस्यान्तर्मुहूर्त प्रमाणस्यादीप्रथमसमये आहारयन्ति उत मध्ये-मध्यसमयेषु आहोश्वित् पर्यवसाने - पर्यवसानसमये ?, भगवानाह - गौतम! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ? - उपभोगोचित कालस्यान्तर्मुहूर्त्त प्रमाणस्यादिमध्यावसानसमयेऽप्याहारयन्तीति । यानि भदन्त ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयानि - स्वोचिताहारयोग्यान्याहारयन्ति उताविषयानि खोचिता- ४ हारायोग्यान्याहारयन्ति ?, भगवानाह - गौतम! स्वविषयाण्याहारयन्ति नो अविषयाणि । यानि भदन्त ! स्वविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्याऽऽहारयन्ति अनानुपूर्व्या ?, आनुपूर्वी नाम यथाऽऽसनं तद्विपरीताऽनानुपूर्वी, भगवानाह - गौतम! आनुपूर्व्या, सूत्रे द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात् यथाऽऽचाराङ्के "अगणि पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्व्या ऊर्ध्वमधस्तिर्यग्या, यथाssसनं नातिक्रम्याहारयन्तीति भावः । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं 'तिदिसं ति तिस्रो दिशः समा | हतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पश्चदिशि दिशि वा, इह लोकनिष्कुटपर्यन्ते जधन्यपदेऽपि [-जीवावगाहक्षेत्रं-] त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा अतस्त्रिदिश्यारभ्य प्रभः कृतः, भगवानाह - गौतम! 'निव्वाघापूर्ण छद्दिसि'मित्यादि, व्याघातो नामालोकाकाशेन प्रतिस्खलनं व्याघातस्याभावो निर्व्यापातं 'शब्दप्रधादावव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्भावविधानात् पक्षेऽत्राम्भावः, नियमाद्- अवश्यतया पदिशि व्यवस्थितानि, षड्भ्यो दिग्भ्य आगवानीति भावः, द्रव्याण्याहारयन्ति, व्याघातं पुनः प्रतीय लोकनिष्कुटादौ स्यात्कदाचित्रिदिशि-तिसृभ्यो दिग्भ्य For P&Praise Cly ~50~ १ प्रतिपत्तौ सूक्ष्मट७ वीकायाः सू० १३ ॥ २० ॥
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy