________________
आगम
(१४)
प्रत
सूत्रांक
[१३५ ]
दीप
अनुक्रम
[१७३]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
------ उद्देशकः [ ( द्वीप समुद्र ) ],
- मूलं [ १३५]
प्रतिपत्तिः [३], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
धानः, अनेन जम्बूद्वीपानामप्यसङ्ख्येयत्वं सूचयति तस्मिन् द्वादश योजनसहस्राणि अवगाह्य अत्रान्तरे विजयस्य देवस्य योग्या विजया नाम राजधानी प्रज्ञप्ता मया शेषैश्व तीर्थकृद्भिः सा च द्वादश योजनसहस्राणि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां सप्तत्रिंशद् योजनसहस्राणि नव शतानि 'अष्टाचत्वारिंशानि' अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इदं च परिक्षेपपरिमाणं 'विक्संभवरगदहगुणकरणी वट्टस्स परिरओ होई' इति करणवशात्स्वयमानेतव्यम् ॥ 'सा 'मित्यादि, 'सा' विजयाभिधाना राजधानी णमिति वाक्यालङ्कारे एकेन महता प्राकारेण 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्ता || 'से ण'मित्यादि, | स प्राकार: सप्तत्रिंशतं योजनानामर्द्धयोजन मूर्द्धमुचैस्त्वेन मूलेऽर्द्धत्रयोदश योजनानि विष्कम्भेन मध्ये पड् योजनानि सक्रोशानि-एकेन | क्रोशेनाधिकानि विष्कम्भेन उपरि त्रीणि योजनानि सार्द्धक्रोशानि [योजनानि] सार्द्धानि द्वादश अर्द्धक्रोशाधिकानि (द्वादश) विष्कम्भेन, मूळे विस्तीर्णो मध्ये संक्षिप्तो, मूलविष्कम्भतोऽर्द्धस्य बुद्धितत्वात् उपरि तनुको, मध्य विष्कम्भादप्यर्द्धस्य त्रुटितत्वात् बहिर्वृत्तोऽन्तश्चतुरस्रो 'गोपुच्छसंस्थानसंस्थितः' ऊर्द्धाकृतगोपुच्छसंस्थानसंस्थितः 'सन्त्रकणगमए' सर्वासना कनकमयः 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् ॥ 'से णमित्यादि, स प्राकारो नानाविधानि च तानि पञ्चवर्णानि च नानाविधपश्यवर्णानि तैः नानाविधवं च पथावर्णपेक्षया कृष्णादिवर्णतारतम्यापेक्षया वा द्रष्टव्यं पञ्चवर्णत्वमेवोपदर्शयति- 'किण्हेहिं' इत्यादि । 'ते णं कविसीसगा' इत्यादि, तानि कपिशीवैकाणि प्रत्येकमर्द्धकोशं धनुःसहस्रप्रमाणमायामेन देर्येण पञ्च धनुःशतानि 'विष्कम्भेन' विस्तारेण, देशोनमर्द्ध कोश मूर्द्धगुचैस्लेन 'सव्वमणिमया' इत्यादि सर्वासना मणिमया 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या एकैकस्यां बाहायां पञ्चविंशं पञ्चविंशत्यधिकं द्वारशवं २ प्रज्ञतं सर्वसया पश्च द्वारश्वानि । 'ते णं दारा'
For P&Pealise Cinly
~ 447~