________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२६]
किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, किनरादयो व्यन्तरविशेषाः, तेषां कथम्भूतानाम् ।। इत्याह-'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पा-|
पु सर्वतः पण्डकवनं 'महाहिमयंतमलयमन्दरगिरिगुहासमन्नागयाणं' इति महाहिमवान्-हमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः, उपलक्षण शेषवर्षधरपर्वताना, मलयपर्वतस्य मन्दरगिरेश्च-मेरुपर्वतस्य च गुहा समन्वागताना, वाशब्दा विकल्पार्थाः, एतेषु। हि स्थानेषु प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम् , 'एगतो सहियाण'ति एकस्मिन् स्थाने सहिताना-समुदितानां 'समुहागयाणति परस्परसंमुखागताना-संमुखं स्थितानां, नैकोऽपि कस्यापि पृष्ठं दत्त्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविचासोत्पत्तेः, तथा 'समुविट्ठाण सम्यक् परस्परानाबाधया उपविष्टाः समुपविष्टास्तेषां समुपविष्टानां, तथा 'संनिविट्ठाण मिति सम्यक् स्वशरीरानाबाधया न तु विषमसंस्थानेन निविष्टाः संनिविष्टास्तेपा, 'पमुइयपक्कीलियाण'ति प्रमुदिताः-प्रहधं गताः प्रक्रीडिता:-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासस्थां, तथा गीते रतिर्येषां ते गीतरतयो गन्धर्व-नाश्यादि तत्र हर्षितमनसो गन्धर्वहर्षितमनससततः पूर्वपदेन विशेषणसमासस्तेषां गद्यादिभेदावष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गचं गीयते, यत्र तु पा-वृत्तादि गीयते तत्पद्यं, यत्र कथिकादि गीयते तत्कथ्य, पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पादवद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम् , 'उक्खित्ताय'मिति उक्षिप्तकं प्रथमतः समारभ्यमाणं, दीर्घवं ककारात्पूर्व प्राकृतलान् , एवमुत्तरत्रापि द्रष्टव्यं, 'प्रवृत्तकं' प्रथमसमारम्भादूर्द्धमाझेपपूर्वकप्रवर्त्तमानं 'मंदाय'मिति मन्दकं मध्यभागे सकलमूर्छनादिगुणोपेतं मन्दं मन्दं संचरन , तथा 'रोझ्यावसाणं ति रोचितंसम्यग्भावितमवसानं यस्य तद् रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद् रोचितावसानमिति भावः, तथा
दीप अनुक्रम [१६४]
~397~