________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२५]
दीप अनुक्रम [१६३]
पुन्छनीनामुपरि कवेलुकानामध आच्छादनम् ।। 'साणमित्यादि, 'सा' एवं स्वरूपा णमिति वाक्यालक्कारे पद्मवरवेदिका तत्र तत्र है। प्रदेशे एकैकेन 'हेमजालेन' सर्वासना हेममयेन लम्बमानेन दामसमूहेन एकैकेन 'गवाक्षजालेन' गवाक्षाकृतिरत्नविशेषदामसमूहेन एकैकेन 'किङ्किणीजालेन' किङ्किण्य:-क्षुद्रघण्टिकाः एकैकेन घण्टाजालेन, किङ्किण्यपेक्षया किञ्चिन्महत्यो घण्टा घण्टाः, तथा एकैकेन 'मुक्ताजालेन' मुक्ताफलमयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनकपीतरूपः सुवर्णविशेपस्तन्मयेन दागसमूहेन एकैकेन रबजालेन एकैकेन (वर) पद्मजालेन-सर्वरत्नमयपद्मासकेन दामसमूहेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सर्वासु विदिक्षु परिक्षिप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्पमानानि वेदितव्यानि,
तथा चाह--'ते णं जाला' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्यान् , प्राकृते हि लिङ्गमनियतमिति, णमिति पूर्ववत् हेमजाPालादीनि कचिन् दामा इति पाठः तत्रता हेमजालादिरूपा दामान इति व्याख्येयं, 'तवणिजलंबूसगा' तपनीयम्-आरक्तं सुवर्ण|
तन्मयो लम्बूसगो-दानामप्रिमभागे मण्डनविशेषो येषां तानि तपनीयलम्बूसकानि 'सुवण्णपयरगमंडिया' इति पार्श्वत: सामस्त्येन | सुवर्णप्रतरकेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, 'नाणामणिरयणविविहहारद्धहार उवसोभियसमुदया' इति नानारूपाणां मणीनां रवानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभित: समुदायो चेपां वानि, तथा 'ईसिमन्नमन्नमसंपत्ता' इति ईपत्-मनाग अन्योऽन्य-परस्परमसंप्राप्तानि-असंलमानि पूर्वापरदक्षिणोत्तरागतैर्वातैः 'मंदाय मंदाय' इति मन्दं मन्दम् एज्यमानानि-कम्प्यमानानि 'भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमवादेः' इत्यविच्छेदे द्विवचनं यथा पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव च प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि प्रलम्बमाना नि, ततः
जी०५०३१
Santa
~371