________________
आगम
(१४)
प्रत
सूत्रांक
[११४
-११७]
दीप
अनुक्रम
[१५२
-१५५]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ (मूलं + वृत्तिः )
प्रतिपत्ति: [३],
- उद्देशक: [ ( देव०)],
- मूलं [११४-११७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jan Ebertor
- इति मृष्टानीव सृष्टानि सुकुमारशानया पाषाणप्रतिमावदेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् 'निर्मलानि' आगन्तुकमलासम्भवात् 'निष्पङ्कानि कलङ्कविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा - निष्कवचा निरावरणा निरुपघातेति भावार्थ: छाया दीप्तिर्येषां तानि निष्ककटच्छायानि 'सप्रभाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गत किरणजालानि 'सोद्योतानि' बहिर्व्यवस्थित वस्तुस्तोमप्रकाशकराणि 'प्रासादीयानि' प्रसादाय - मनः प्रसत्तये हितानि मनः प्रसत्तिका - रीणीति भाव:, तथा 'दर्शनीयानि' दर्शनयोग्यानि यानि पश्यतञ्चक्षुपी न श्रमं गच्छत इति भाव:, 'अभिरुवा' इति अभि-सर्वेषां द्रष्टृणां मनः प्रसादानुकूलतयाऽभिमुखं रूपं येषां तानि अभिरूपाणि-अत्यन्तकमनीयानीत्यर्थः अत एव 'पडिरूवा' इति प्रतिविशिष्ट रूपं येषां तानि प्रतिरूपाणि अथवा प्रतिक्षणं नवं नवमिव रूपं येषां तानि प्रतिरूपाणि ॥ तदेवं भवनस्वरूपमुक्तमिदानीं यत्पृष्टं 'क भदन्त ! भवनवासिनो देवाः परिवसन्ती'ति तत्रोत्तरमाह — 'तत्थ णं बहवे भवणवासी देवा परिवर्तति असुरा नागा भेदो भाणि यच्चो जाव विहरंति एवं जा ठाणपदे वत्तब्बया सा भाणियन्वा जाव चमरेण असुरकुमारिंदे असुरकुमारराया परिवसइ' इति, 'तत्र' तेष्वनन्तरोदितस्वरूपेषु भवनेषु बहवो भवनवासिनो देवाः परिवसन्ति तानेव जातिभेदत आह- 'असुरा नागा' इत्यादि यावत्करणादेवं परिपूर्णः पाठ:- "असुरा नाग सुवण्णा विज्जू अग्गी य दीव उदही य दिसिपवणथणियनामा दसहा एए भवणवासी ॥ १ ॥ चूडामणिमउडरयणा १ भूसणनागफण २ गरुल ३ बइर ४ पुण्णकलसअंकउप्फेस ५ सीह ६ हयवर ७ गय ८ नगरंक९ वरबद्धमाण १० निजुत्तचित्तविधगया सुरूवा महिडीया महखुइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडगतुडवर्थभियभुया अंगयकुंडलम गंडतलकण्णा पीढधारी विचित्तहत्याभरणा विचित्तमालामउली (मउडा ) कहाणगपवरवत्थप
For P&Praise City
~331~
watyw