SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [११४ -११७] दीप अनुक्रम [१५२ - १५५] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ (मूलं + वृत्तिः ) - उद्देशक: [ ( देव०)], • मूलं [११४- ११७] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः सर्वत्र सूचिता अन्यथा कपाटानामसम्भवात्, तोरणानि प्रतीतानि तानि च प्रतोलीद्वारेषु, प्रतिद्वाराणि मूलद्वारापान्तरालवर्चीनि लघुद्वाराणि । तथा 'जंतसयग्धिमुसलमुसंढिपरिवारिया' इति यत्राणि - नानाप्रकाराणि शतभ्यो- महावष्टयो महाशिला वा याः पातिताः सत्यः पुरुषाणां शतानि नन्ति गुशलानि - प्रतीतानि मुपण्डय:- शस्त्रविशेषास्तैः परिवारितानि समन्ततो वेष्टितानि अत एवायोध्यानि परैयतुमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा सर्वकालं जयो येषु तानि सदाजयानि सर्वकालं जयवन्तीति भाव:, तथा सदा सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धुभिः सर्वतः समन्ततो निरन्तरं परिवारिततया परेषामसहमानानां मनागपि प्रवेशासम्भवान् 'अडयालकोट्टरइया' इति अष्टाचत्वारिंशद्भेदभिन्नविच्छित्तिकलिताः कोष्ठका - अपवरका रथिताः स्वयमेव रचनां प्राप्ता येषु तान्यष्टाचत्वारिंशत्कोष्ठकरचितानि सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः तथाऽष्टाचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतयनमालानि, अन्ये त्वभिद्धति अडालशब्दो देशीवचनात् प्रशंसावाची, ततोऽयमर्थ:-- 'प्रशस्त कोष्ठकरचितानि प्रशस्तकृतवनमालानी'ति तथा 'क्षेमाणि' परकृतोपद्रवरहितानि, 'शिवानि' सदा मङ्गलोपेतानि तथा किङ्कराः - किक्करभूता येऽमरास्तैर्दण्डैः कृत्वा उपरक्षितानि - सर्वतः समन्ततो रक्षितानि किङ्करामरदण्डोपरक्षितानि, 'लाउलोइयमहिया' इति लाइयं नाम यद्भूमेर्गोमयादिना उपलेपनम् 'उल्लोइयं' कुड्यानां मालस्य सेटिकादिभिः संसृष्टीकरणं छाइयोहोइयाभ्यां महितानि - पूजितानि लाइयोलोइयमहितानि तथा गोशीर्पेण-गोशीर्षनामकेन चन्दनेन सरसरक्तचन्दनेन च दर्दरेण - यहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयतला हस्तका येषु तानि गोशीर्ष सरसरक्तचन्दनदर्दरदत्तपचाङ्गुलितलानि, तथा उपचिता- निवेशिताः चन्दनकलशा - मङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चंदणधड सुकयतोरणपडिदुवारदेसभागा' For P&Praise Cinly ------ ~329~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy