________________
आगम
(१४)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[3]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र -३ / १ ( मूलं + वृत्ति:)
प्रतिपत्ति: [१],
• उद्देशक: [ - ],
- मूलं [१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ ३ ॥
Ja Ekemon
| ज्ञानायोगात् केवलं म्लेच्छस्ये वाऽऽयक्तानुभाषणमात्रमिदमिति, तथा चोक्तमपरैः – “आर्याभिप्रायमज्ञात्वा, म्लेच्छवाग्योग तुल्यता | सर्वज्ञादपि हि श्रोतुस्तदन्यस्यार्थदर्शने ॥ १ ॥ तत आह- 'जिनप्ररूपितं ' जिनेन - भगवता बर्द्धमानस्वामिना यथा श्रोतॄणामधिगमो भवति तथा सम्यक्प्रणयनक्रियाप्रवर्त्तनेन प्ररूपितं किमुक्तं भवति ? - यद्यपि नाम श्रोता न भगवद्विवक्षां साक्षादधिगच्छति तथाऽप्यनादिरयं शाब्दो व्यवहारः साक्षाद्विवक्षाग्रहणमन्तरेणापि भवति यथासङ्केतं शब्दार्थावगमो बालादीनां तथा दर्शनात्, अन्यथा सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रार्था अपि शब्दा भगवतैव सङ्केतिताः प्रस्तावौचित्यादिना च नियतमर्थ प्रतिपादयन्ति तत- ५ चित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, न चान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारकत्वात् न चोपेक्षते, तीर्थप्रवर्त्तनाय प्रवृत्तत्वात् ततो गणभृतां साक्षात् परम्परया शेषसूरीणामपि यथाऽवस्थितार्थावगम इति नेदमविज्ञातार्थमिति, अन्ये खाहु:भगवान प्रवचनप्रयासमाधत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतॄणां प्रतिभास उपजायते यथा - इत्थमित्थं भगवान् तस्त्वमाचष्टे, उक्तं च- " तदाधिपत्यादाभासः, सत्त्वानामुपजायते । स्वयं तु यत्नरहितञ्चिन्तामणिरिव स्थितः ॥ १ ॥” इति, तन्मतविकुट्टनार्थमाह - 'जिनाख्यातं ' जिनेन -भगवता बर्द्धमानस्वामिना प्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं कथितं जिना - ख्यातं, साक्षात्कथनव्यापारोपलम्भेऽपि यदि तदाधिपत्यमात्रात्तथाप्रतिभास: श्रोतॄणामित्यभ्युपगम्यते ततोऽन्यत्रापि तथाकल्पनाप्रसङ्गः तथा च प्रत्यक्षविरोध इति यत्किच्चिदेतद् भगवांश्चाख्यातवान् सम्यग् योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूडलक्षत्वात्, सम्यग्योग्यश्च श्रोता ओतृलक्षणोपेतः, श्रोतृलक्षणानि चामूनि—“मध्यस्थो बुद्धिमानर्थी, जात्यादिगुणसंगतः । श्रुतकृच यथाशक्ति, | श्रोता पात्रमिति स्मृतः ॥ १ ॥” ततः फलवदेवेदं जिनाख्यातमित्या वेदयन्नाह - 'जिनानुचीर्ण' जिना इह हिताध्यनिवर्धक योगसिद्धा
For P&Pase Cinly
~16~
अध्ययन प्रामाण्यं
सू. १
॥ ३ ॥