SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [8] दीप अनुक्रम [3] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र -३ / १ ( मूलं + वृत्ति:) • उद्देशक: [ - ], - मूलं [१] प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः 'इह' अस्मिन् प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने न शेषेषु शाक्यादिप्रवचनेषु, अथवा 'इहेति मनुष्यलोके, खलुशब्दो वाक्यालङ्कारे, 'जिनमत' मिति रागादिशत्रून् जयति सा (इति) जिन:, स च यद्यपि छास्थवीतरागोऽपि भवति तथाऽपि तस्य तीर्थप्रवर्त्तकत्वायोगादुत्पन्न केवलज्ञानस्तीर्थकृदभिगृह्यते, सोऽपि च वर्द्धमानस्वामी, तस्य वर्त्तमानतीर्थाधिपतित्वात् तस्य जिनस्य- वर्द्धमानखा| मिनो मतम् - अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिटकं, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह -- 'जिनानुमतं' जिनानाम् अतीतानागतवर्त्तमानानामृषभपद्मनाभसी नन्वरस्वामिप्रभृतीनामनुमतम् - आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्ग च प्रति | मनागपि विसंवादाभावादिति जिनानुमत्तम्, एतेन सर्वेषामपि सीर्यकृतां परस्परमविसंवादिवचनता प्रवेदिता, पुनः कथम्भूतमित्याह- 'जिनानुलोमं' जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणमिति भावः, एतद्वशादवयादिजिनत्वप्राप्तेः तथाहियथोक्तमिदं जिनमतमासेचमानाः साधवोऽवधिमनः पर्याय केवलला भमासादयन्त्येवेति, तथा 'जिनप्रणीतं' जिनेन भगवता वर्द्धमानस्वामिना प्रणीतं समस्वार्थसङ्मयात्म कमातृकापदत्रयप्रणयनाजिनप्रणीतं, भगवान् हि वर्द्धमानस्वामी केवलज्ञानावातावादी बीजबुद्धिखादिपरमगुणकलितान् गौतमादीन् गणधारिणः प्रत्येतन्मातृकापदत्रयमुक्तवान् "उप्पने इ वा विगमे इ वा धुवे इ वा" इति एतच पदत्रयमुपजीव्य गौतमादयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येवज्जिनगतं जिनप्रणीतमिति, एतेनागमस्य सुत्रतः पौरुषेयत्वमावेदितं, | पुरुषव्यापारमन्तरेण वचनानामसंभवात् न खलु पुरुषव्यापारमन्तरेण नमसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः 'वचनाजिनसंयुद्धिस्तन्नैरर्थक्यमन्यथा । अपौरुषेयमेवेदं धर्माधर्मनिबन्धनम् ॥ १ ॥ इति तदपास्तमवसेयमिति तत्र मा भूत्कस्वाप्येवमाशङ्का-यथेदम विज्ञातार्थमेव तत्त्वतः साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षाया अत्यक्षत्वेन ग्रहणाभावे विवक्षितशब्दार्थ परि For P&Pase Cnly ~ 15~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy