________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : ।-1, -------------------------उद्देशक: -,---------------------- मूलं -1 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
--00
संयमप्रवृत्त्या सकलकर्मक्षयोपपत्तेः, ततः प्रयोजनवान् अधिकृताध्ययनप्रारम्भप्रयासः, अभिधेयं जीवाजीवस्वरूपं, तच्चाधिकृताध्ययसाननानो यथार्थत्वमात्राप्यवगतं १, सम्बन्धन द्विधा-उपायोपेवभावलक्षणो गुरुपर्वक्रमलक्षणश्न, तत्रायसोनुसारिणः प्रति, सयथा-13
वचनरूपापन्नं प्रकरणमुपायस्वत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता बर्द्धमानस्वामिना जीवाजीवाभिगम उक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुग्रहायातिशायिभिश्चतुर्दशपूर्वधरैस्तृतीयस्मादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्रतिपादयिष्यति २, इदं | च जीवाजीवाभिगमाख्यमध्ययनं सम्यगज्ञानहेतुलात् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदत्र विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय खतो मङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यखते, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलम् इह खलु जिणमय' मित्यादि, अत्र जिननामोत्कीर्तन मङ्गलं, मङ्गलं प नामादिभेदाचतुर्धा, सदं नोआग-IN मतो भावमङ्गलम् , एतच्चाधिकृताध्ययनार्थपारगमनकारणं, मध्यमङ्गलं द्वीपसमुद्रखरूपकथनं, निमित्तशाखे हि द्वीपसमुद्रनामग्रणं परममङ्गलमिति निवेदितं, तथा च द्वीपसमुद्रादिनामग्रगाधिकारे तत्रोक्तम्-"जो' जं पसत्वमत्थं पुच्छइ तस्सऽत्थसंपत्ती" इत्यादि, | एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं "दसविहा सम्बजीवा" इत्यादिरूपं, सर्वजीवपरिज्ञानहेतुलेन माङ्गलिकत्वात् , तव शिष्यपशिष्यसन्तानाम्यवच्छेदार्थम् , उक्तंच-"तं मंगलमाईए मज्झे पजतए य सत्थस्स । पढम सुचत्वाविग्धपारगमणाय निदिई
१ यो यं प्रशस्तमर्थ पृच्छति तस्यार्थसंप्राप्तिः, २ तम्मङ्गलमादी मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं सूत्रार्थस्यानिभेन पारयमनाय निर्दिष्टम् ॥ १॥
- 900CRC
वृत्तिकार-रचिता जीवाजीवाभिगमस्य भूमिका
~13~