SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : ।-1, -------------------------उद्देशक: -,---------------------- मूलं -1 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: शास्त्रभूमिका प्रत श्रीजीवा- द्वेषमोहादिदोषाणामात्यन्तिकप्रक्षयात् , स चात्यन्तिकः प्रक्षयो दोषाणामईत एव, अत: प्रारभ्यतेऽईदचनानुयोगः, तत्राचारादिशास्त्राजीवाभिणामनुयोगः पूर्वसूरिभिर्व्यासादिप्रकारैरनेकधा कृतस्ततो न तदन्वाख्याने समस्ति तथाविधं प्रयाससाफल्यम्, अतो यदस्ति तृतीयाङ्गस्य मलयगि-15 स्थाननाम्नो रागविषपरममत्ररूपं द्वेषानलसलिलपूरोपमं तिमिरादित्यभूतं भवाब्धिपरमसेतुमहाप्रयनगम्यं निःश्रेयसावाप्त्यवन्ध्यरीयावृत्तिः शक्तिकं जीवाजीवाभिगमनामकमुपाङ्गं पूर्वटीकाकृताऽतिगम्भीरमल्पाक्षराख्यातम्, अत एव मन्दमेधसामुपकारायाप्रभविष्णु,तस्य तेषा मनुग्रहाय सविस्तरमन्वाख्यानमातन्यते । तत्र जीवाजीवाभिगमाध्ययनप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात् , कण्टकशाखामर्द नादिवत् , इत्याशकाऽपनोदाय प्रयोजनादिकमादाबुपन्यसनीयम् , उक्तं च-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं | दाचैव शास्त्रादौ, वाफ्यभिष्टार्थसिद्धये ॥१॥” इति, तत्र प्रयोजनं द्विधा-परमपरं च, पुनरेकै द्विविध-कर्तृगतं श्रोतृगतं च, तत्र द्रव्या स्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथा चोक्तम्-'नेपा द्वादशाङ्गी कदाचिन्नासीत् न कदाचिन्न भवति । न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती"त्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वावश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायो तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यलात् सूत्रापेक्षया चानित्यत्वात्कथञ्चित्कर्तृसिद्धिः, तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादकस्याहतः किं प्रयोजनमिति चेद् , उच्यते, न किञ्चित् , कृतकृत्यत्वाशगवतः, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चेत्, न, तस्य वीर्थकरनामफर्मविपाकोदयप्रभवत्वात् , उक्तं च-तं च कहं वेइजइ ?, अगिलाए धम्मदेसणाए उ" इति, ओतृणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परं नि:श्रेयसपदं, विवक्षिताध्ययनसम्यगावगमतः १तच कौ वैयते । अग्लान्या धर्मदेशनयैव (नादिभिः) Jatichan वृत्तिकार-रचिता जीवाजीवाभिगमस्य भूमिका ~ 12~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy