________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५]]
शब्दास्तैः सम्पणादितं सम्यक्-श्रोत्रमनोहारितया प्रकर्षेण नादि-शब्दवद दिव्यत्रुटितशब्दसम्मणादितं, 'अच्छे जाव पटिरूवामिति यावच्छब्दकरणात् 'अच्छं सहं घटुं मटुं नीरयं निम्मलं निष्पकं निकंकडच्छार्य सप्प समिरियं सउज्जोयं पासाइयं दरिसणिज आभि-| रूवं पडिरूव' मिति द्रष्टव्यं, एतच्च प्राग्वव्याख्येयं । ' तस्स णमि त्यादि, तस्य 'णमिति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः-मध्ये बहुसमरमणीय भूमिभाग विकुर्वन्ति, तद्यथा--आलिंगपुष्करमिति वे त्यादि, तदेव तावद्वक्तव्यं यावन्मणिस्पर्शमूत्रपर्यन्तः, तथा चाह-'जाबमणीणं फासो' इति । 'तस्स णमित्यादि, तस्य णमिति पूर्ववत् प्रेक्षागृहमण्डपस्य उल्लोकम् -उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्र
जाव पडिरूवामि' ति, यावच्छब्दकरणात् 'अच्छं सव्ह'मित्यादिविशेषणकदम्बकपरिग्रहः । तस्स णमि' त्यादि, तस्य-बहुसमकरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र 'ण 'मिति पूर्ववत् एकं महान्तं वज़मयमक्षपाट विकुर्वन्ति, तस्य चाक्षपाटकस्य बहु
मध्यदेशभागे तत्रैका महतीं मणिपीठिका विकुन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहुल्येन-उच्चैस्त्वेनेति भावः, कथंभूतां तां विकुर्वन्तीत्यत आह सर्वमणिमयीं' सर्वात्मना मणिमयीं यावत्करणादच्छामित्यादिविशेषणसमूहपरिग्रहः, तस्याश्च मणिपीठिकाया उपर्यत्र महदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्पो वर्णावासः प्रज्ञप्तः, तद्यथा तपनीयमयाः चकला रजतमयाः सिंहास्तरुपशोभितं सिंहासनमुच्यते, सौवर्णिकाः मुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जम्बूनदपयानि गात्राणि वजमया-वजरत्नापूरिताः सन्धयो-गात्राणां सन्धिमेलाः नानामणिमयं वेश्चं-तज्जातः
से णं सीहासण इत्यादि तत् सिंहासनमीहामृगऋषभतुरगनरमफरव्यालककिन्नररुरुसरभचमरवनलतापमलताभक्तिचित्र '[सं सारसारोबचियमणिरयणपायपीढ'मिति [संसारसारैः-प्रधानैः मणिरत्नैरुपचितेन पादपीठेन सह यत्तत्तथा, प्राकृतत्वाच्च पदोपन्यासव्य
अनुक्रम [१५]
सूर्याभदेवस्य दिव्ययान करणं
~82~