________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५]]
इवा' इति दृश्यते तत्रेन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममज्जनकेसिकाकुसुम, नीलोत्पल-कुवलयं, नीलाशोककणवीरनीलबन्धुजीवाअशोकादिवृक्षविशेषाः, 'भवेयारूचे' इत्यादि प्राम्खद् व्याख्येयं । तथा 'तत्य णमित्यादि, 'तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तेषामयमेतद्रूपो वर्णावासः प्रातः, तद्यथा 'से नहानामए '10 इत्यादि, तद्यथा नाम शशकरुधिरं उरभ्रः-ऊरणस्तस्य रुधिर, बराहः-शूकरस्तस्य रुधिरं, मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातेन्द्रगोपकः स हि प्रवृद्धः | सन्नीपत्पाण्डुरो रक्तो भवति ततो वालग्रहणं, इन्द्रगोपक:-प्रथमप्राट्कालभावी कीटविशेषः, बालदिवाकर:-प्रथममुद्गच्छन् मूर्यः,
सन्ध्याभ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जा-लोकप्रतीता तस्यादें रागो गुञ्जार्द्धरागः, गुञ्जाया हि अर्द्धमतिरक्तं भवति | अर्द्धं चातिकृष्णमिति गुजार्द्धग्रहणं, जपाकुसुमकिसुककुसुमपारिजातकुसुमजात्यहिगुला लोकप्रसिद्धाः, शिलाप्रबाल-बालनामा रत्नविशेषः प्रवालाकुर:-तस्यैव रत्नविशेषस्य प्रवालस्याङ्करः, स हि तत्पथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणि म रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवीररक्तबन्धुजीवाः प्रतीताः, 'भवेयावे' इत्यादि पाम्बत् । 'तत्थ णमित्यादि, 'तत्र । तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा
से जहानामए' इत्यादि , स यथानाम चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्ली-सुवर्णचम्पकत्वक, चम्पकभेदः-10 सुवर्णचम्पकच्छेदः, हरिद्रा प्रतीता, हरिद्राभेदो-हरिद्राच्छेदः, हरिद्रागुटिका-हरिद्रासारनिवर्तिता गुटिका, हरितालिका-पृथिवीचिकाररूपा प्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः, हरितालिकागुटिका-हरितालिकासारनिवर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः,
अनुक्रम [१५]
a
urainrary.om
सूर्याभदेवस्य दिव्ययान करणं
~74~