SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [१०] दीप अनुक्रम [१०] मूलं [१०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि -प्रणीता वृत्तिः श्रीराजमश्री मलयगिरीया वृत्तिः ॥ २३ ॥ Education [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) हि यद्वेलाद्वयमपि वैकियसमुद्घातेन समवहननं तत्किलैकं इदं त्वभ्रवालकविकुर्वणार्थी द्वितीयमत उक्तं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते (नन्ति), समवहत्य चान्भ्रवालकानि विकुर्वन्ति, वाः पानीयं तस्य दलानि वार्दलानि तान्येव वार्दलकानि मेघा इत्यर्थः, अपो विभ्रतीति अभ्राणि मेघाः, अभ्राणि सन्त्यस्मिन्निति 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, आकाशमित्यर्थः, अन्धे वार्दलकानि अन्भ्रवालकानि तानि त्रिकुर्वन्ति, आकाशे मेघानि विकुर्वन्तीत्यर्थः, 'से जहानामए भइगदारगे सिया' इत्यादि पूर्ववत् 'निउणसिप्पोवगए एवं महमित्यादि, स यथानामको भूतिकदारक एवं महान्तं 'दकवारकं वा' मृत्तिकामयभाजनविशेषं दगकुंभगं वा ति दकघर्ट, दकस्थालकं वा- कंसादिमयमुदकमृर्त भाजनं दककलसं वा उदकभृतं भृङ्गारं 'आवरिसिज्जा ' इति आवर्षेत् आ-समन्तात्सिञ्चेत्, 'खिप्पामेव पतणतणायंति' अनुकरणवचनमेतत् प्रकर्षेण स्तनितं कुर्वन्तीत्यर्थः, 'पविज्जुयाइति 'त्ति प्रकर्षेण विद्युतं विद्धति, 'पुष्फबदलए विजच्वंति पुष्पवृष्टियोग्यानि वार्दलिकानि पुष्पवादलिकानि पुष्पवर्षाकान् मेघान् विकुर्वन्तीति भावः, ' एगं महं पुप्फछज्जियं वा एकां महतीं छायते - उपरि स्थग्यते इति छाया छाद्यैव छायिका पुष्पैर्भूता छाधिका पुष्पछायिका तां वा पटलकानि प्रतीतानि, 'कयन्नाहगाहयकरयलपव्भट्टवि(प) मुकेणं' ति इह मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं ॐ स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं तथा करतलाद्वि(प्र) मुक्तं सत्मभ्रष्टं करतलमभ्रष्टवि (म) मुक्तं, माकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, तेन, शेषं सुगमं यावत् 'जएणं विजएणं वद्धावेति' जयेन विजयेन वर्द्धापयन्ति, जयतु देवेत्येवं वर्द्धापयन्तीत्यर्थः, तत्र जयःपरैरनभिभूयमानता प्रतापवृद्धिश्व विजयस्तु परेषामसहमानानामभिभवोत्पादः, वर्द्धापयित्वा च तां पूर्वोक्तामाज्ञप्तिको प्रत्यर्पयन्ति, आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः ॥ ॐ SMI भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनार्थे समार्जनादिः For Parts Only ~55~ सूर्याभागमनाय संभा ...र्जनादि सू० १० ॥ २३ ॥ Torary org
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy