SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) ------------ मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सत्रांक [२६] दीप अनुक्रम रन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरामति, अपरे वाहुः-विस्तारोत्सेधयोः समत्वात समचतुरस्रं तच तत्संस्थानं च २, संस्थानम्-आकारस्तेन संस्थितो-व्यवस्थितो यः स तथा 'जाव उठाए उद्देइ' इति यावत्करणात वजरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतबस्सी घोरवंभचेर-1 वासी उच्छ्नसरीरे संवित्तविपुलतेयलेसे चउदसपुची चउनाणोवगए सवक्खरसन्निवाई समणस्स भगवती महावीरस्स अदरसामन्ते उजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से भगवं गोयमे जायसड़े जायसंसए जायकोउहल्ले जपन्नसड़े उपनसंसए उत्पन्नकोउहले संजायसढे संजायसंसए संजायकोउहल्ले समुप्पण्णसड़े समुप्पण्णसंसए समुप्पष्णकोउहाले । उडाए उडेइ ' इति द्रष्टव्यं, तत्र नाराचमुभयतो मर्कटयन्धः ऋषभस्तदुपरि वेष्टनपट्टः कालिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, तथा कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकपः कपपके रेखारूपस्तथा पद्मग्रहणेन पद्मकसराण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोको वदति-स्पृष्टो मया देवदत्त इति, कनकपुलकनिकपवत् पद्मवच्च यो गौरः स कनकपुलकनिकषपनगौरः, अथवा कनकस्य यः पुलको-वत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशः कनकपुलकनिकषः, तथा पद्मवत्-पअकेसरवत् यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयसमासः, अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह-'उग्गतवे' इति, उग्रम्-अधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दी जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, 'तत्ततवे' इति तप्तं तपो येन स तप्ततपाः, एवं (२६) 960 SAREatini I murary on | गौतमस्वामिन: वर्णनं ~122~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy