________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
चाची, तथा च लोके वक्तारो-नाद्याप्येतस्य वक्तव्यस्य समयो वर्चते, किमुक्तं भवति ?-नावाप्येतस्य वक्तव्यस्यावसरो वर्तते से इति, तस्मिन्निति यस्मिन् समये भगवान सूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्या नाम नगरी अभवत् , नन्विदानीमपि सा नगरी वर्चते दतः कथमुक्तमभवदिति ?, उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत्, न तु विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयमिति चेत् , उच्यते, अयं काल: अवसर्पिणी, अवसपिण्यां च प्रतिक्षणं शुभा भाषा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधमाक् । सम्पत्यस्या नगयों वर्णकमाहरिद्धस्थिमियसमिद्धा जाव पासाइया दरिसणिज्जा अभिरूवा पडिरूवा" इति ऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋषि वृद्धा विति वचनात् , स्तिमिता- स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता, समृदा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः, यावच्छब्देन 'पमुइयजणजाणवया' प्रमुदिताः-प्रमोदवन्तः प्रमोदहेस्तुवतूनां तत्र सद्भावात् , लनानगरीवास्तव्यलोकाः जानपदा:-जनपदभवास्तत्र प्रयोजनवशादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, 'आइपणजणमणूमा मनुष्यजनैराकीर्णा, माकृतत्वात्पदव्यत्ययः, "हलसयसहस्ससंकिदुविगिलट्ठपण्णतसेउसीमा" हलानां शनैः सहस्रश्च सहकृष्टाविलिखिता विकष्टा-नगर्या. दूरवर्तिनी बहितिनीति भावः, लष्टा मनोज्ञा पाई-टेकराला प्राज्ञाप्ता, छेफपुरुषपरिकर्मिनेति भावः, सेतुसीमा कुल्याजलसेक्यक्षेत्रसीमा यस्याः सा हलशतसहस्रसस्कृष्टविकृष्टलष्टमाशाप्तसेतुसीमा, 'कुकुडसंडेयगामपउरा' कुफुटसम्पात्या |ग्रामाः सवोसु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुकुटसण्डेयग्रामप्रचुराः, 'गोमहिसगवेलगप्पभूया गावा-चलीवदा महिपा:-अनीता गाव:-स्त्रीगन्य एडका:-उरभ्रास्ते प्रभूता यस्यां सा तथा, 'आयारवन्तचेइयजुबइविसिद्धसमिचिट्ठबहुला' आकारवन्ति-मुन्दराकाराणि
आमलकल्पानगरी एवं आमशालवन चैत्यस्य वर्णनं
~ 12~