SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ------------------------------- मल २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०-२३] दीप अनुक्रम [२०-२३] स्यापि ग्रामस्यायमधिपतिरिति सचराचरविपयज्ञानदर्शनप्रतिपादनार्थमाह-सव्वतो जाणह सचओ पासह ' सर्वतः--सर्वत्र दिक्षु ऊर्ध्वमधो लोकेऽलोके चेति भावः, जानीय पश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्त्तमानिकमात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञानदर्शनपतिपादनार्थमाह-सर्वकालम् अतीतमनागतं वर्तमानं च जानीय पश्यथ, एतेन कालपरिग्रहः, तत्र कश्चित् सर्वव्यसर्वक्षेत्रसर्वकालविषयमपि ज्ञानं सर्वपर्यायविषयं न सम्भावयेत् यथा मीमांसकादिः अत आह-सर्वान् भावान्-पर्यायान् प्रतिद्रव्यमात्मीयान् परकीयांश्च केवलवेदसा जानीय केवलदर्शनेन पश्यथ, अथ भावा दर्शनविषया न भवन्ति ततः कथमुक्त-सब्बे भावे पासह । इति?, नैष दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति, अनुकलितरूपतया तु ते भवन्त्येव, तथा चोक्तम्-" निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते,"इति, ततो 'जाणति णमितिपूर्ववत देवानां । प्रियाः पूर्वमपि अनन्तरमुपदर्यमाननाट्यविधेः पश्चादपि च उपदय॑माननाव्यविधेः, उत्तरकालं मम एतद्रूपां दिव्या देवदि दिव्यां दवद्युतिं । दिव्यं देवानुभावं लब्धं (लब्ध) देशान्तरगतमपि किश्चिद्भवति तत आह प्राप्त, प्राप्तमपि किश्चिदन्तरायवशादनात्मवशं भवति तत आहअभिसमन्वागतं, तत 'इच्छामि णमित्यादि, इच्छामिणमितिपूर्ववत् देवानां प्रियाणां पुरतो भक्तिपूर्वक बहुमानपुरस्सरं गौतमादीनां श्रमणानां निर्ग्रन्थानां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावमुपदर्शयितुं द्वात्रिंशद्विधं-द्वात्रिंशत्यकारं नाट्यावध नाट्यविधानकामुपदर्शयितुमिति । 'तए णमित्यादि, ततः श्रमणो भगवान महावीरः सूर्याभेण देवेन एवमुक्तः सन् मूर्याभस्य देवस्यैनम्-बन-11 अन्तरोदितमर्थं नाद्रियते-न तदर्थकरणायादरपरो भवति, नापि परिजानाति अनुमन्यते, स्वतो वीतरागत्वात् गौतमादीनां च नाट्य-15 विधेः स्वाध्यायादिविघातकारित्वात् , केवलं तूष्णीकोऽवतिष्ठते, एवं द्वितीयमपि वारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति । REnaind REATMENTam.org भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं ~ 104~
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy