________________
आगम
(१२)
प्रत
सूत्रांक [३४]
दीप
अनुक्रम [३४]
उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [... ३४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
भाग - १४ "औपपातिक"
Eucation Internation
स्तत्सम्बम्धिजीवस्य स्वभाषाया - निजभाषायाः सम्बन्धिना परिणामेन स्वरूपेण परिणमति वर्तते । यादृशं धर्म कथयति तदर्शनार्थमाह-'तंज' त्यादि, 'अस्थि लोए इत्यादि कहाणपावर' इत्येतदन्तं, सुगमं, नवरं लोकः पञ्चास्तिकायमयः अलोकः| केवलाकाशरूपः, अनयोश्चास्तित्वाभिधानं शून्यवादनिरासार्थं, तन्निरासोपपत्तिश्च ग्रन्थान्तरावगम्या, एवं प्रायेणोचरत्रापि, 'अस्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो बहुवचनार्थी द्रष्टव्यः, इदं च लोकायतमत निषेधार्थमुक्तम्, 'अस्थि | अजीव 'त्ति पुरुषाद्वैतादिवादनिषेधार्थम्, 'अस्थि बंधे अस्थि मोक्खेत्ति बन्धः कर्मणा जीवस्य मोक्षः-सकलकर्मवियोगः तस्यैव एतच्च द्वयं "संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरेव, नात्मेत्येवंविधसाय मत निषेधार्थमिति, 'अस्थि पुण्णे अस्थि पावेत्ति पापमेवापच्चीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्तीत्येवंविधवाद निरासार्थमुक्तं जगद्वैविध्यनिबन्धन केवल स्वभाववाद निरासार्थं वा, 'अस्थि आसवे अस्थि संवरे' कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतञ्च बन्धमोक्षयोर्निष्कारणत्वप्रतिषेधार्थं वीर्य प्राधान्यख्यापनार्थं वा, 'अस्थि वेयणा अस्थि णिज्जरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः, एतच्च 'नामुक्त क्षीयते कर्मे' त्येतत्प्रतिपादनार्थम्, अर्हदादिचतुष्कसत्ताभिधानं तु तद्भुवनातिशायित्वमश्रद्दधतां तच्छुद्धोत्पा| दनार्थ, नरकनैरयिका स्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थ, तिर्यगाद्यस्तित्वप्रतिपादनं तु प्रत्यक्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन इति ये मन्यन्ते तन्मतनिषेधार्थं, मातापितृसत्ताभिधानं तु ये मन्यन्ते योऽयं मातापितृव्यपदेशः स जनकस्वकृतो जनकत्वाच्च यूकाकुमिगण्डोलकादीन
-
भगवत् महावीरस्य धर्मदेशनया: [ प्रवचनस्य ] वर्णनं
For Penal Use Only
~296~
wor