SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [३१] दीप अनुक्रम [३१] भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:) मूलं [... ३१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः कलित इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गत्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः प्रबरं यद्भिरिकुहरं - पर्वतनिकुञ्जस्तत्र यद्विचरणं-सञ्श्चरणं तेन सुमुदिता - अतिहृष्टा निरुपहताश्च - उपघातरहिता ये चमराः - | आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं देहस्य पश्चिमो भागस्तत्र या सञ्जाता-उत्पन्नाः सङ्गताश्च - अनवद्यास्तास्तथा ताभिः, 'अमलिय सिय कमलविमलुज्जलियरययगिरिसिहर विमलससिकिरणसरिसकलधोयनिम्मलाहिं' अमलितम्-अमर्दितं यत्सितकमलं - पुण्डरीकं तथा विमलं निर्मलं उज्ज्वलितम्-उद्दीप्तं यद्रजतगिरिशिखरं वैताढ्यगिरिकूटं तथा विमला ये शशिकिर|णास्तत्सदृश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्च रूप्यवदुज्ज्वला इति समासोऽतस्ताभिः, 'पवणाहयचवलललिय| तरंगहत्थन चंतवीइपसरिय खीरोदगपवर सागरुप्पूर चंचलाहिं' पवनाहताः- वायुप्रेरिताश्चपलाः-तरला ललिता - मनोहरास्त| रङ्गहस्ताः - प्रतनुकल्लोलपाणयस्तैः नृत्यन्निव नृत्यन् यः स तथा वीचयो - महाकल्लोलास्तैः प्रसृतश्च विस्तारमुपगतः स चासौ क्षीरोदकश्च-क्षीराकारजलः स चासी प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूर:- प्रकृष्टः प्रवाहः स तथा तद्वच्चञ्चला यास्तास्तथा ताभिः, 'माणससर परिसर परिचियावासविसयवेसाहिं इह हंसवधूभिरिव कठित इत्यनेन सम्बन्धः, मानसाभिधानसरसः परिसरे प्रान्ते परिचितः पुनः पुनः कृत आवासो निवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च धवलाकारा इति कर्मधारयोऽतस्ताभिः, 'कणगगिरिसिहरसंसियाहिं' कनकगिरेः - मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभिः, 'उवइयउप्पइयतुरियचवलजइण सिग्धवेगाहिं' अवपतितोत्पतितयो:- निपतनोत्पतनयोस्त्वरितचपलः-अत्य न्तचपलः जविनः- शीघ्रो वेगवतां मध्येऽतिशीघ्रो वेगो गतिविशेषो यासां तास्तथा ताभिः 'हंसवधूयाहिं चैव कलिए' For Pal Use Only कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं ~274~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy