________________
आगम
(१२)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[७]
उपांगसूत्र-१ (मूलं+वृत्तिः)
मूलं [७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
भाग - १४ "औपपातिक"
धारिणीराज्य: वर्णनं
-
लक्षणतः, पूर्णानि - स्वरूपतः, पुण्यानि वा पवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा । 'लक्खणर्वजणगुणोकवेया' लक्षणानि - स्वस्तिक चक्रादीनि व्यञ्जनानि - मषीतिलकादीनि तेषां यो गुणः- प्रशस्तत्वं तेनोपपेता-युक्ता या सा तथा । 'माणुम्माणप्पमाणपडिपुण्णसुजायसवंगसुंदरंगी' तत्र मानं - जलद्रोणप्रमाणता, कथम् ? - जलस्यातिभृते कुण्डे प्रमातव्यमानुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते, तथा उन्मानम्अर्द्धभारप्रमाणता, कथम् ?, तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुम्मान प्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टो तरशतोच्छ्रयता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाण्यङ्गानि - शिरःप्रभृतीनि यत्र तत्तथाविधं सुन्दरम-शरीरं यस्याः सा तथा । 'ससीसोमाकार कंतपीयदंसणा' शशिवत्सौम्याकारं - कान्तं च-कमनीयमत एव च प्रियं वल्लभं द्रष्टृणां दर्शनं रूपं यस्याः सा तथा । अत एव 'सुरुवति शोभनरूपा । 'करयलपरिमिअपसत्यतिवलियवलियमज्झा' करतलपरिमितो - मुष्टिग्राह्यः प्रशस्तः-शुभस्त्रिवलिको वलित्रययुक्तो वलितः सञ्जातवलिमध्यो- मध्यभागो यस्याः सा तथा । 'कुंडलुलिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखाः कपोलपत्रवल्यो यस्याः सा तथा, 'कुण्डलोलिखितपी नगण्डलेखे 'ति पाठान्तरं व्यक्तं च । 'कोमुइरयणियर विमलपडिपुण्णसोमवयणा' कौमुदीचन्द्रिका कार्तिकी वा तत्प्रधानस्तस्यां वा यो रजनीकरः- चन्द्रस्तद्वद्विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा । 'सिंगारागारचारुवेसा' शृङ्गारस्य - रसविशेषस्यागारमिव - स्थानमिव चारुः -शोभनो वेषो नेपथ्यं यस्याः सा तथा अथवा | शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधानः आकार:-संस्थानं चारुश्च वेपो यस्याः सा तथा । 'संगयगयहसियभणिय विहियवि
For Para Use Only
~ 164~
www.anibrary or