________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
---- मूलं [१८-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१८-१९]
दीप अनुक्रम [२०-२१]
लगति-अट्टालकः प्राकारावयवः सम्भाव्यते, तत्साधर्म्य चोरसः क्षामत्वादिनेति, तथा 'हावियपसेवओव्व' चि नापितप्रसेवक घाइव नखशोधकक्षुरादिभाजनमिव 'उरास वक्षास 'लम्बेते' प्रलम्बमानौ तिष्ठतः द्वावपि तस्य 'स्तनको वक्षोजी, तथा 'पोर्ट्स
जठरं अयःकोष्ठकवत्-लोहकुशूलवद्वृत्तं वर्तुलं, तथा पानं-धान्यरससंस्कृतं जलं येन कृविन्दाचीवराणि पाययन्ति तस्य कलन्द-कुण्डं पानकलन्दं तत्सदृशी गम्भीरतया 'से' तस्य नाभिः-जठरमध्यावयवः, वाचनान्तरेऽधीतंभगकडी विगयत्रकपट्ठी असरिसा दोवि तस्स फिसगा' तत्र भन्नकटिविकृतवकपृष्ठः फिसको पुतौ, तथा शिक्ककं' दध्यादिभाजनानां दोरकमयमाकाशेऽवलम्बन लोकप्रसिद्धं तत्संस्थानसंस्थितं 'से' तस्य नेत्रं-मथिदण्डाकर्षणरज्जुः तद्वदीर्घतया तन्नेत्रं शेफ उच्यते, तथा 'किण्णपुडसंठाणसठियत्ति सुरागोणकरूपतण्डुलकिण्वभृतगोणीषुटद्वयसंस्थानसंस्थिताविति सम्भाव्यते, द्वावपि तस्य वृषणी-पोत्रको, तथा ' जमलकोट्ठिय ' ति समतया व्यवस्थापितकुशूलिकाद्वयसंस्थानसंस्थितौ द्वावपि तस्य ऊरू-जके, तथा 'अज्जुणगुट्ठी वत्ति अर्जुन:-तृणविशेषस्तस्य गुटुं-स्तम्बस्तद्वत्तस्य जानुनी, अनन्तरोक्तोअपमानस्य साधर्म्यं व्यनक्ति-कुटिलकुटिले-अतिवक्रे विकृतीभत्सदर्शने, तथा 'जले जानुनोरधोवर्तिन्यो 'कक्खडीओ'त्ति कठिने, |निमासे इत्यर्थः, तथा रोमभिरुपचिते, तथा अधरी-पेषणशिला तत्संस्थानसंस्थितौ द्वावपि तस्य पादौ, तथा अधरीलोटः-शिलापुत्रकः तत्संस्थानसंस्थिताः पादयोरगुल्यः, तथा शुक्तिपुटसंस्थिताः 'से' तस्य पादाङ्गुलिनखाः । केशाग्रानखानं यावद्वर्णित पिशाचरूपम् , अधुना सामान्येन तद्वर्णनायाह-'लडहमडहजाणुए' त्ति इइ प्रस्ताव लड्दशब्देन गन्त्र्याः पश्चाद्भागवति तदुत्तरागरक्षणार्थ यत्काष्ठं तदुच्यते, तच्च गन्त्र्यां श्लयबन्धनं भवति, एवं च श्लथसन्धिबन्धनत्वाल्लडह इव लडहे मडहे च स्थूलत्वाल्पदी
1
For Pare
omarary
कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग:
~53~