SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [४] श्रुतस्कन्ध: [१], मूलं [...१५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याकर० श्रीअ भयदेव० वृत्तिः ॥ ७४ ॥ यज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, उन्मानं तु तुलारोपितस्वार्द्धभारप्रमाणता प्रमाणं पुनरात्माहुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तं च- "जलदोण १ अद्धभारं २ समुहाई समूसिओ व जो णव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥ १॥ ति [जलद्रोणोऽर्घभारः स्वमुखानि नव तु समुच्छ्रितो यश्च । मानोन्मानप्रमाणानि त्रिविधं खलु लक्षणमेतत् ॥ १ ॥ ] मुखस्य द्वादशाङ्गुलायामत्वात् नवभिर्मुखैरष्टोत्तरमङ्गुलशतं भवतीति, शशिवत्सौम्य आकारः कान्तं कमनीयं प्रियं -प्रेमावहं दर्शनं येषां ते तथा 'अमरिसण'त्ति अमर्षणा अपराधासहिष्णवः अमसृणा वाकार्येष्वनलसाः प्रचण्डः प्रकाण्डो वा दुःसाध्यसाधकत्वाद् दण्डप्रचारः सैन्यविचरणं दण्डप्रकारो वा आज्ञाविशेषो येषां ते ३ तथा गम्भीराः अलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः कर्मधारयः, तालो - वृक्षविशेषो ध्वजः केतुर्येषां ते तथा उद्विद्धः उच्छ्रितः गरुडः केतुर्येषां ते तथा ततो द्वन्द्वस्ततस्ते क्रमेण रामकेशवाः 'बलवग'ति बलवन्तं गर्जन्तं - कोऽस्माकं प्रतिमल्ल ? इत्येवंशब्दायमानं दृप्तानामपि मध्ये दर्पितं सञ्जातद मौष्टिक-मौष्टिकाभिधानं मल्लं चाणूरं चाणूराभिधानं मलमेव कंसराजसम्बन्धिनं मूरयन्ति चूर्णयन्ति ये ते तथा, तत्र किल मल्लयुद्धे कृष्णवधार्थी कंसेनारब्धे बलदेवेन मुष्टिकमल्लो वासुदेवेन चाणूरमल्लो मारित इति, एवमन्यान्यपीतः कानिचिद्विशेषणानि अन्तिमौ पलदेव वासुदेवावाश्रित्याघीतानि, रिष्ठवृषभघातिनः- कंस ॥ ७४ ॥ राजसत्करिष्ठाभिधानदृतदुष्टमहावृषभमारकाः केसरिमुखविस्फाटकाः इदं च विशेषणं प्रथमवासुदेवमा Jain Education Internationa For Parts Only ४ अधर्म द्वारे मैथुनसेविनः ~ 349~ बलदेव वासुदेव वर्णनं सू० १५
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy