SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्ययन [१] ------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक मनुच्चारयत एव परेषां स्वसमीपानयनाथ स्वशरीररूपदर्शनं रूपानुपातः ४ 'बाहिया पोग्गल पक्खेवे' ति अभिगृहीतदेशावहिः । प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्टादिपुद्गलप्रक्षेप इति भावना ५, इह चाद्यद्वयस्यानायोगादिनाऽतिचारत्वं इतरस्य तु त्रयस्य | व्रतसापेक्षत्वादिति ॥ 'पोसहोववासस्स' ति इह पोषधशब्दोऽष्टम्यादिपर्वसु रूढः, तत्र पोषधे उपवासः पोषधोपरासः, स चाहारादिविषयभेदाच्चतुर्विध इति तस्य, 'अप्पडिलेहिये त्यादि अप्रत्युपेक्षितो-जीवरक्षार्थं चक्षुषा न निरीक्षितः 'दुष्प्रत्युपेक्षितः उद्घान्तचेतोवृत्तितयाऽसम्याग्निरीक्षितः शय्या-शयनं तदर्थं संस्तारकः-कुशकम्बलफलकादिः शय्यासंस्तारकः ततः पदत्रयस्य कर्मधारये भवत्यमत्युपेक्षितदुष्पत्युपेक्षितशय्यासंस्तारकः, एतदुपभोगस्यातिचारहेतुत्वादयमतिचार उक्तः १, 'एवमप्रमा. |र्जितदुष्प्रमार्जितशय्यासंस्तारकोऽपि नवरं प्रमार्जनं वसनाञ्चलादिना २, एवमितरौ दौ, नवरमुच्चारः-पुरीषं, सवर्ण, मूत्रं तयोभूमिः स्थण्डिलम् ३, ४, एते चत्वारोऽपि प्रमादितयातिचाराः, 'पोसहोववासस्स सम्म अणणुपालपाय' ति कृतपोषधोपवासस्यास्थिरचित्ततयाऽऽहारशरीरसत्काराब्रह्मव्यापाराणामभिलपणादननुपालना पोषधस्येति, अस्य चातिचारत्वं भावतो विरतेोधितत्वादिति ॥ 'अहासविभागस्से ति अहात्त-यथासिद्धस्य स्वार्थ निर्तितस्येत्यर्थः, अशनादेः समिति सङ्गन्तत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनं साधये दानद्वारेण विभागकरणं यथासंविभागः तस्य, 'सचित्तनिक्खिवणयेत्यादि सचित्तेषु ब्रीद्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणं १, एवं सचिचेन फलादिना स्थगनं सचितपिधानं २, 'कालातिक्रमः कालस्य-साधुभोजनकालस्यातिक्रमः-उल्लङ्घनं कालातिक्रमः, अयमभिप्रायः,- कालमूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददाति एवं विकल्पतो दानार्थमभ्युत्थानमतिचार इति ३, तथा 'परव्यपदेश अनुक्रम For सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं ~31~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy