________________
आगम
(१०)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम
[१५]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
अध्ययन [ ३ ]
मूलं [११]
श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
र० श्रीअभयदेव० वृत्तिः
॥ ५१ ॥
प्रश्नव्याक- दया रुषितास्तज्ज्ञातोपसर्गसहस्राणि च तैः सकुलो यः स तथा तं, बहूनि उत्पातिकानि - उत्पातान् भूतःप्राप्तो यः स तथा तं, वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधा रयोऽतस्तं, तथा विरचितो बलिना-उपहारेण होमेन-अग्निकारिकया धूपेन च उपचारो देवतापूजा यैस्ते तथा, *तथा दर्श वित्तीर्ण रुधिरं यत्र तत्तथा तच तदर्थनाकरणं च देवतापूजनं तत्र प्रयता ये ते तथा, तथा योगेषु२. प्रवहणोचितव्यापारेषु प्रयता ये ते तथा, ततो विरचितेत्यादीनां कर्मधारयोऽतस्तैः सांयात्रिकैरिति गम्यते, चरितः सेवितो यः स तथा तं पर्यन्तयुगस्य-कलियुगस्य योऽन्तकालः क्षयकालस्तेन कल्पा कल्पनीया उपमा रौद्रत्वायस्य स तथा तं दुरन्तं दुरवसानं महानदीनां गङ्गादीनां नदीनां च इतरासां पतिः प्रभुर्यः स तथा महाभीमो दृश्यते यः स तथा ततः कर्म्मधारयोऽतस्तं दुःखेनानुचर्यते- सेव्यते यः स तथा तं विषमप्रवेशं दुःखोत्तारमिति च प्रतीतं दुःखेनाश्रीयत इति दुराश्रयस्तं लवणसलिलपूर्णमिति व्यक्तं, असिताः| कृष्णाः सिता:-सितपटाः समुच्छ्रतका ऊर्द्धाकृता येषु तान्यसितसित समुच्छ्रितकानि तैः, चौरप्रवहणेषु हि | कृष्णा एव सितपटाः क्रियन्ते, दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहिं'ति सांयात्रिकयानपात्रेभ्यः सकाशादक्षत रैर्येगवद्भिरित्यर्थः, बहनैः प्रवहणैः अतिपत्य-पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये घ्नन्ति गत्वा जनस्य- सांयात्रिकलोकस्य पोतान् यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा निःशुकास्ते तथा, वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा निःशुकास्ते 'निरवयक्ख'ति परलोकं प्रति निरवकाङ्क्षा-निरपेक्षाः,
For Parts Only
~303~
३ अधर्म
द्वारे अदत्तादा|नकारकाः सू० ११
॥ ५१ ॥