________________
आगम
(१०)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[११]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [२]
मूलं [७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
वृत्तिः
॥ ३४ ॥
प्रश्नव्याक दृश्यते जलचन्द्रवत् ॥ १ ॥" तथा "पुरुष एवेदं निं सर्व यद्भूतं यच भाव्यमित्यादि, कुदर्शनता चास्य सक २० श्रीअ- ४ललोकविलोक्यमान भेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात्, तथा अकारकः सुखदुःखहेतूनां पुण्यपापकर्मणामभयदेव० कर्त्तारमेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्त्तत्वेन परिणामित्वेन च कर्तृत्वोपपत्तेरकर्तृत्वे चाकृताभ्यागमप्रसङ्गात्, तथा वेदकश्च प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च प्रतिबिम्बोदयन्यायेन भोक्ता, अमूर्त्तत्वे हि कदाचिदपि वेदकता न युक्ता आकाशस्येवेति कुदशनताऽस्य, तथा सुकृतस्य दुष्कृतस्य च कर्म्मणः करणानि इन्द्रियाणि कारणानि - हेतवः सर्वथा - सर्वैः प्र कारैः सर्वत्र च देशे काले च न वस्त्वन्तरं कारणमिति भावः, करणान्येकादश, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धीन्द्रियाण्येकादशं च मन इति एषां चाचेतनावस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासी, यदाह - “नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, नैनं वहति मारुतः ॥ १ ॥ अच्छेद्योऽयमभेद्योऽयममूर्तीऽयं सनातन" इति, असचैतत्, एकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षायभावप्रसङ्गात्, तथा निष्क्रियःसर्वव्यापित्वेनावकाशाभावाद् गमनागमनादिक्रियावर्जितः, असच्चैतत् देहमात्रोपलभ्यमानतद्गुणत्वेन तनियतत्वात् तथा निर्गुणश्च सत्त्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह"अकर्त्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने” इति, असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्व
For Parts Only
~ 269~
१ अधर्म
द्वारे मृषावादिनः
सू० ७
।। ३४ ।।