SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्ययन [१], ------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: उपासकदशाङ्गे ध्ययन प्रत सूत्रांक ति असद्भूतार्थस्य लेखस्य विधानमित्यर्थः, एतस्य चातिचारत्वं प्रमादादिना दुर्विवेकत्वेन वा, 'मया मृषावादः प्रत्याख्यातोऽयं तु कूट आनन्दालेखो, न मृषावादनम्' इति भावयत इति ५, वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिनं सन्धिकरणे' नि पठ्यते, आवश्यकादी पुनरिमे स्थूलमृपावादभेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते-एते एव प्रमादसहसाकारानाभोगैर व्रतातिभिधीयमाना मृपावादविरतेरविचारा भवन्ति, आकुट्या तु भङ्गा इति, एतेषां चेदं स्वरूपम्-कन्या-अपरिणीता स्त्री तदर्थमलीकं चारोपदेशः कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपातेन सर्व मनुष्यजातिविषयमलीकमुपलक्षितं, एवं गवालीकमपि चतुष्पदजात्यलीकोषलक्षणं, ४ भून्यलीकमपदानां सचेतनाचेतनवस्तूनामलीकस्योपलक्षणं, न्यासो-द्रव्यस्य निक्षेपः, परैः समर्पितं द्रव्यमित्यर्थः, तस्यापहारः अपलपन पासापहार,तथा कूटम्-असद्भूतमसत्यार्थसंवादनेन साक्ष्य-साक्षिकर्म कूटसाक्ष्य, कस्मिन्नित्याह-'सन्धिकरणे' द्वयोर्विवदमानयोः सन्धानकरणे, विवादच्छेद इत्यर्थः, इह च न्यासापहारादिद्वयस्य आद्यत्रयान्तर्भावेऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रिययोर्भेदेनोपादानं द्रष्टव्यमिति । तेणाहडे' ति स्तेनाहृतं-चौरानीतं, तत्समर्पमिति लोभात्काणक्रयेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात् स्तेनाहृतमित्यतिचार उक्तः, अतिचारता चास्य साक्षाचौर्यापत्तेः १, 'तक्करप्पओगे' त्ति तस्करप्रयोगश्चौरच्यापारणं, 'हस्त यूयम्' इत्येवमभ्यनुज्ञानमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिभिरिति २, 'विरुद्धरजाइक्कमे त्ति विरुद्धनृपयो राज्यं तस्यातिक्रमः-अतिलवनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः, चौर्यबुद्धिरपि तस्य तत्र नास्तीति, अतिचारताऽस्यानाभोगादिना इति ३, 'कूडतुलकूडमाणे' ति तुला-प्रतीता मान-कुडवादि कूटत्वं-स्पूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽतिचरति व्रतमिति अतिचारहेतुत्वादतिचारः कूटतुलाकूटमानमुक्तः, अतिचारत्वं चास्यानाभोगादेः, अथवा 'नाहं चौरः क्षत्रखननादेरकरणात अनुक्रम सम्यक्त्व एव द्वादश व्रतानां अतिचार-वर्णनं ~24~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy