SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत गाथा ||२|| दीप अनुक्रम [3] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० ( मूलं + वृत्ति:) अध्ययनं [१] मूलं / गाथा ||२|| श्रुतस्कन्ध: [१], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः Euca पञ्चविध-आश्रवाः पंचविहो पण्णत्तो जिणेहिं इह अण्हओ अणादीओ। हिंसामोसमदत्तं अब्भपरिग्गहं चैव ॥ २ ॥ 'पंचविहो' गाथा । पञ्चविधः पञ्चप्रकारः प्रज्ञप्तः प्ररूपितो जिनैः - रागादिजेतृभिः इह-प्रवचने लोके वा आलवः- आश्रवः अनादिकः - प्रवाहापेक्षयाऽऽदिविरहितः उपलक्षणत्वादस्य नानाजीवापेक्षया अपर्यवसित इत्यपि दृश्यं सादित्ये सपर्यवसितत्वे वाऽऽश्रवस्य कर्म्मबन्धाभावेन सिद्धानामिव सर्वसंसारिणां बन्धाद्यभावप्रसङ्गः, अथवा ऋणं - अधमर्णेन देयं द्रव्यं तदतीतोऽतिदुरन्तत्वेनातिक्रान्तः ऋणातीतः अणं वा पापं कर्म आदि:कारणं यस्य स अणादिकः, नहि पापकर्मवियुक्ता आश्रवे प्रवर्त्तन्ते, सिद्धानामपि तत् प्रवृत्तिप्रसङ्गादिति, तमेव नामत आह-हिंसा-प्राणवधः 'मोस' ति मृषावादं अदत्तं - अदत्तद्रव्यग्रहणं अब्रह्म च मैथुनं परिग्रह-स्वीकारो अब्रह्मपरिग्रहं, चकारः समुच्चये, एवशब्दोऽवधारणे, एवं चास्य सम्बन्धः अब्रह्म परिग्रहमेव चेति, अवधारणार्थश्चैवं हिंसादिभेदत एव पञ्चविधः, प्रकारान्तरेण तु द्विचत्वारिंशद्विधो, यदाह - "इंद्रिय ६ कसाय ४ | अव्वय ५ किरिया २५ पण चउर पंच पणवीसा | जोगा तिन्नेव भवे वायाला आसवो होइ ॥ १ ॥” ति [ इन्द्रियाणि कषायाः अत्रतानि क्रियाः पञ्च चत्वारः पञ्च पञ्चविंशतिः । योगास्त्रय एव भवेयुः द्विचत्वारिंशदा श्रवा भवन्ति ॥ १ ॥ ] एवं चानया गाथयाऽस्य दशाध्ययनात्मकस्याङ्गस्य पञ्चानामाश्रवाणामभिधायका| न्यायानि पञ्चाध्ययनानि सूचितानि, तत्र प्रथमाध्ययनविनिश्च (या) पप्रथमाश्रववक्तव्यतानुगमार्थमिमां द्वार गाथामाह For Penal Use On ~208~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy