SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रृतस्क न्ध : [१], ----------------------- अध्य यन [१] ----------------------- मल / गाथा ||१|| पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक गाथा ||१|| सुधर्मखामिशिष्यत्वात् सुधर्मखामिना प्रणीतमिदं सूत्रत इत्यभिहितं, महर्षिभिरित्यनेन चार्थतस्तीर्धकरैरिति । इह च सुधर्मवामिनं प्रति श्रीमन्महावीरेणैवार्थतोऽस्याभिधानेऽपि यन्महर्षिभिरिति बहुवचननिदेशेन तीर्थकरान्तराभिहितत्वमस्य प्रतिपादितं तत्सर्वतीर्थकराणां तुल्यमतत्वप्रतिपादनार्थ, विषममतत्वे हि तेषामसर्वज्ञत्वप्रसङ्गादिति, इह च महर्षिग्रहणेन तदन्येषामपि सम्भवे यत् तीर्थकरैरिति व्याख्यातं तत् 'अत्यं भासह अरहा सुत्तं गंधति गणहरा निउण'मिति वचनानुसारानिरुपचरितमहच्छन्दप्रयोगस्य च तेष्वेव युज्यमा नत्वादिति, एतेन चास्य शास्त्रस्योपक्रमाख्यानुयोगद्वारसम्बन्धिनः प्रमाणाभिधानभेदस्यागमाभिधानप्रतिभेहादस्याभेदभूता तीर्थकरापेक्षयाऽर्थत आत्मागमता गणधरापेक्षयाऽर्थतः अनन्तरागमता तच्छिष्यापेक्षया परAम्परागमता प्रोक्ता, 'जम्बू' इत्यनेन सूत्रतः सुधर्मस्खाम्यपेक्षया आत्मागमता जम्बूस्वाम्यपेक्षयाऽनन्तराग मता तच्छिष्यापेक्षया च परम्परागमतेति, अथवा अनुगमाख्यतृतीयानुयोगद्वारस्य प्रभेदभूतो य उपोद्घातनियुक्त्यनुगमस्तत्सम्बन्धिनः पुरुषद्वारस्य प्रभेदभूतार्थतस्तीर्थकरलक्षणभावपुरुषप्रणीतता सूत्रतो गणधरलक्षणभावपुरुषप्रणीतता चास्योक्ता, तथा च गुरुपर्वक्रमलक्षणः सम्बन्धोऽप्यस्य दर्शितः, एतदुपदर्शनेन चास्मिन् शास्त्रे आसप्रणीततयाऽविसंवादित्वेन ग्राह्यमेतदिति बुद्धिः प्रेक्षावतामाविर्भाविता, तथा आश्रवसंवरविनिश्चयमित्यनेनास्याभिधेयमुक्तं, एतदभिधाने चोपक्रमद्वारान्तर्गतमर्थाधिकारद्वारं तद्विशेषभूतखसमयवक्तव्यताद्वारैकदेशरूपमुपदर्शितमिति, प्रवचनस्य निस्यन्दमित्यनेन तु प्रवचनप्रधानावयवरूपखम BASSॐ525% दीप अनुक्रम [१-२] PASEASE ~206~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy