________________
आगम
(०६)
प्रत
सूत्रांक
| [१४-१७] + [१४-R
+१५-R]
दीप
अनुक्रम [१९-२४]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
------ अध्ययनं [१],
मूलं [१४-१७]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि- रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ३५ ॥
च अवतंसके च प्रकम्पमाने चललोलानि - अतिचपलानि ललितानि - शोभावन्ति परिलम्बमानानि - प्रलम्बमानानि नरमकरतुरंगमुखशतेभ्यो- मुकुटाग्रविनिर्मित तन्मुखाकृतिशतेभ्यो विनिर्गतानि निःसृतानि उद्गीर्णानीव वान्तानीवोद्गीर्णानि यानि प्रवरमौक्तिकानि वरमुक्ताफलानि तैर्विराजमानं शोभमानं यन्मुकुटं तच्चेति इन्द्रः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, तथा 'अनेगमणिकणगरयण पहकरपरिमंडिय भागभत्तिचित्तविणिउत्तगमणगुणज णियपैखोलमाणवरललितकुंडलुज्जलिय अहियआभरणजणियसोभे' अनेकमणिकन कर लनिकरपरिमण्डितभागे भक्तिचित्रे विच्छित्तिविचित्रे विनियुक्ते - कर्णयोर्निवेशिते गमनगुणेन-गतिसामर्थ्येन जनिते कृते प्रेङ्खोलमाने चञ्चले ये वरललितकुंडले ताभ्यामुज्ज्वलितेनउद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्ज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्तैर्जनिता शोभा यस्य स तथा, तथा "गयज| लमलविमलं दंसणविरायमाणरूवे" गतजलमलं- विगतमालिन्यं विमलं दर्शनम् - आकारो यस्य स तथा, अत एव विराजमानं रूपं यस्य स तथा ततः कर्मधारयः, अयमेवोपमीयते उदित इव कौमुदीनिशायां कार्त्तिकपौर्णमास्यां शनीश्वराङ्गारकयो:प्रतीतयोरुज्ज्वलितः- दीप्यमानः सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो - लोचनाह्लादकः शरचन्द्र इति, शनीबरांगार - कवत्कुण्डले चन्द्रवच तस्य रूपमिति, तथाऽयमेव मेरुणोपमीयते - दिव्यौषधीनां प्रज्वलेनेव मुकुटादितेजसा उज्ज्वलितं यद्दर्शनं रूपं तेनाभिरामो- रम्यो यः स तथा, ऋतुलक्ष्म्येव सर्वर्तुककुसुमसंपदा समस्ता- सर्वा समस्तस्य वा जाता शोभा यस्य स तथा प्रकृष्टेन गन्धेनोद्भूतेन - उद्गतेनाभिरामो यः स तथा मेरुरिव नगवर: विकुर्वित विचित्रवेषः सन्नसौ वर्तते इति, 'दीवसमुद्दाणं' ति द्वीपसमुद्राणां 'असंखपरिमाणनाम घेज्जाणं ति असंख्यं परिमाणं नामधेयानि च येषां ते तथा तेषां
Education International
For Parts Only
~80~
१ उत्क्षिप्त
ज्ञाते मेषदोहदः
सू. १७
॥ ३५ ॥