________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५५,५६]
दीप अनुक्रम [६६-६८]
भावमाणे विहरइ 'सुए परिचायगे'त्ति शुको-व्यासपुत्रः ऋग्वेदादयश्चखारो वेदाः षष्टितत्र-साङ्यमतं सांख्यसमये-सालयसमा-11 चारे लब्धार्थो, वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामितिहासपश्चमाना इतिहास:पुराणं 'निर्घण्टुषष्ठानां' निर्घण्टुः-नामकोशः साङ्गोपाङ्गानां' अङ्गानि-शिक्षादीनि उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः सरहस्साना-ऐदम्पर्ययुक्तानां सारक:-अध्यापनद्वारेण प्रवर्तकः सारको वा अन्येषां विस्मृतस्य सारणात् वारकोऽशुद्धपाठनिषेधकः पारगः-पारगामी पडङ्गवित् पष्टितत्रविशारदः पष्टितनं-कापिलीयशाख, पडनावेदकसमेव व्यनक्ति-सल्याने-गणितस्कन्धे । |'शिक्षाकल्ये शिक्षायां-अक्षरखरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-पद्यवचनलक्षणनिरूपके निरुक्त-शब्दनिरुक्तप्रतिपादके ज्योतिषामयने-ज्योतिःशास्ने अन्येषु च-ब्राह्मणकेषु शासेषु सुपरिनिष्ठित इति, वाचनान्तरं 'पश्चयमपञ्चनियमयुक्तः तत्र पञ्च यमा:-प्राणातिपातविरमणादयः नियमास्तु-शौचसंतोपतपःखाध्यायेश्वरप्रणि
धानानि शौचमूलकं यमनियममीलनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रबराणि परिहितो यः स तथा, त्रिदण्डादीनि सप्त हस्ते लगतानि यस स तथा, तत्र कुण्डिका-कमण्डलूः, कचित्काचनिका करोटिका वाऽधीयेते ते च क्रमेण रुद्राक्षकतमाला मृनाजनं
चोच्यते, छण्णालक-त्रिकाष्ठिका अङ्कशो-वृक्षपल्लवच्छेदार्थः पवित्रक-ताम्रमयमङ्गुलीयकं केसरी-चीचरखण्डं प्रमार्जनार्थ, 'संखाणं'ति सालमतं 'सज्जपुदयि'ति कुमारपृथिवी । 'पयणं आरुहेइ पाकस्थाने चुल्यादावारोपयति उष्माणं-उष्णत्वं || ग्राहयति 'दिढि वमित्तए' मतं वमयितुं त्याजयितुमित्यर्थः । 'अढाईति अर्थान् अर्यमाणखादधिगम्यमानखादित्यर्थः, माध्यमानखाद्वा याच्यमानखादित्यर्थाः, वक्ष्यमाणयात्रायापनीयादीन् , तथा तानेव 'हेऊई ति हेतून, अन्तर्सिन्यास्तदी
20830
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
~229~