________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२७]
हत-शब्दितं येषु ते तथा, विद्रुमाणीव-प्रवालानीच लोहितानि अग्नियोगात्पल्लवयोगाद्वा अग्राणि येषां ते विद्वमानास्ततः पदद्वयस्य २ कर्मधारयः, ततस्तेषु द्रुमाग्रेषु वृक्षोत्तमेषु सत्सु, वाचनान्तरे खरपरुषरिष्ठव्याहृतानि विविधानि द्रुमाग्राणि येषु ते खरपरुषरिष्ठव्याहृत विविधद्रुमारास्तेषु वनान्तेष्विति, तथा तृष्णावशेन मुक्तपक्षा:-लथीकृतपक्षाः प्रकटितजिहातालुकाः असंघटिततुण्डाय-असंवृतमुखाः ये पक्षिसङ्कास्ते तथा तेषु 'ससंतसु'त्ति श्वसत्सु-श्वासं मुश्चत्सु, तथा ग्रीष्मस्य ऊष्मा च-उष्णता उष्ण|पातश्च-रविकरसन्तापः खरपरुषचण्डमारुतश्च-अतिकर्कशप्रबलवातः शुष्कतृणपत्रकचवरप्रधानवातोली चेति द्वन्द्वः ताभिभ्रेमन्तः-अनवस्थिता दृप्ताः संभ्रांता ये श्वापदाः-सिंहादयः तैराकुला येते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्धः चिह्नपट्टो येषु | |ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु सत्सु, गिरिवरेषु-पर्वतराजेषु, तथा संवर्तकितेपु-संजातसंवर्तकेषु त्रस्ता-भीता ये मृगाश्च प्रसयाध-आटव्यचतुष्पदविशेषाः सरीसृपाश्च-गोधादयस्तेषु, ततश्चासौ हस्ती अवदारितवदनविवरो निलोलिताग्रजितश्च य इति कर्मधारयः 'महंततुंबइयपुण्णकपणे महान्तौ तुम्बकिती भयादरघट्टतुम्बाकारों कृतौ स्तब्धावित्यर्थः, पुण्यौ-व्याकुलतया शब्दग्रहणे प्रवणौ कौँ यस्य स तथा, संकृचितः 'थोर'त्ति स्थूलः पीबरो-महान् करो यस्य स तथा उच्छितलाकुलः 'पीणाइय'ति पीनाया-मडा तया निर्वृत्तं पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोटयनिवाम्बरतलं पादददरेण-16 पादपातेन कम्पयमिव मेदिनीतल'मित्यादि, कण्ठयं 'दिसो दिसिंति दिक्षुचापदिक्षु च विपलायितवान् , आतुरो-ग्याकुलः 'जु-II जिए'त्ति बुभुक्षितः दुर्बलः कान्तो ग्लानः नष्टश्रुतिको-मूढदिकः 'परम्भाहए'त्ति पराभ्याहतो बाधितो भीतो-जातभया प्रस्तोजातक्षोभः 'तसिए'ति शुष्क आनन्दरसशोषात उद्विमः-कथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान, किमुक्तं भवति ?-संजात
sesese
अनुक्रम [३७]
मेघकुमारस्य पूर्वभवा:
~145