________________
आगम
(०६)
प्रत
सूत्रांक
[२३-R]
दीप
अनुक्रम
[३२]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [१],
मूलं [२३]
श्रुतस्कन्धः [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अट्ठ तुज्झगुणवल्लहाओ-गुणैर्वल्लभा यास्तास्तथा 'भजाओ उत्तमाओ निचं भावापुरता सवंगसुंदरीओ'सि 'माणुस्सगा कामभोग'त्ति इह कामभोग ग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि अशुचयः अशुचिकारणत्वात् वान्तं वमनं तदाश्रवन्तीति वान्ताश्रवाः एवमन्यान्यपि, नवरं पित्तं प्रतीतं खेलो- निष्ठीवनं शुक्रं सप्तमो धातुः शोणितं रक्तं दूरूपाणि-विरूपाणि यानि मूत्रपुरीषपूयानि तैर्बहुप्रति पूर्णाः उच्चारः पुरीषं प्रस्रवणं-मूत्रं खेल:- प्रतीतः सिंघानी - नासिकामलः वान्तादिकानि प्रतीतान्येतेभ्यः संभवः- उत्पत्तिर्येषां ते तथा 'इमे य ते इत्यादि, इदं च ते आर्यकः पितामहः प्रार्थकः पितुः पितामहः पितृप्रार्थकः पितुः प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तथा अथवा आर्यकप्रार्यकपितॄणां यः पर्यायः परिपाटिरित्यनर्थान्तरं तेनागतं यत्तत्तथा, 'अग्गिसाहिए' त्यादि, अमेः खामिनचं साधारणं 'दाइय'त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्थातिषारवश्यप्रतिपादनार्थ पर्यायान्तरेणाह - 'अग्गिसामण्णे' इत्यादि, घटनं वस्त्रादेरतिस्थगितस्य पतनं वर्णादिविनाशः विध्वंसनं च प्रकृतेरुच्छेदः धम्र्म्मो यस्य तत्तथा, 'जाहे नो संचाएति'त्ति यदा न शक्नुवन्तौ, 'बहूहिं विसए' त्यादि, बहीभिः विषयाणांशब्दादीनामनुलोमा:- तेषु प्रवृत्तिजनकलेन अनुकूला विषयानुलोमास्ताभिः आख्यापनाभित्र - सामान्यतः प्रतिपादनैः प्रज्ञापनाभिश्च - विशेषतः कथनैः संज्ञापनाभिश्च संबोधनाभिर्विज्ञापनाभिश्व-विज्ञप्तिकामिव सप्रणयप्रार्थनैः चकाराः समुच्चयार्थाः, आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नुत इति प्रक्रमः 'ताहे'सि तदा विषयप्रतिकूलाभिः - शब्दादिविषयाणां परिभोगनिषेधकलेन प्रतिलोमाभिः संयमाद्भयमुद्वेगं च चलनं कुर्वन्ति यास्ताः संयम भयोद्वेगकारिकाः- संयमस्य दुष्करत्वप्रतिपादनपरास्ताभिः प्रज्ञापनाभिः प्रज्ञापयन्तौ एवमवादिष्टाम्- 'निग्गन्थे' त्यादि, निर्ग्रन्थाः साधवस्तेषामिदं नैर्ग्रन्थं
For Parts Only
[nary or
दीक्षा सम्बन्धे मेघकुमारेण सह तस्य माता- पितरः संवादः
...अत्र शीर्षक -स्थाने सू. २४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं तत् कारणात् मया २३ -२ निर्दिष्टम्
~ 111~