________________
आगम
(०६)
प्रत
सूत्रांक [8]
दीप
अनुक्रम
[3]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
श्रुतस्कन्ध: [१]
अध्ययनं [-],
मूलं [१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
शा. घ.
Kissesses
अईम् । नवाङ्गीवृत्तिकारक श्री मदभयदेवसूविरविहित्तवृत्तियुतं गणभृत्पादप्रणीतं
श्रीज्ञाताधर्मकथाङ्गम् ।
॥ नत्वा श्रीमन्महावीरं, प्रायोऽन्यग्रन्थवीक्षितः । ज्ञाताधर्मकथाङ्गस्यानुयोगः कथिदुच्यते ॥ १ ॥ तत्र च फलमङ्गलादि चर्चः स्थानान्तरादवसेयः केवलमनुयोगद्वार विशेषस्योपक्रमस्य प्रतिभेदरूपप्रक्रान्तशास्त्रस्य वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं तच्छिष्यं तु पञ्चमगणधरं सुधर्मखामिनमाश्रित्यानन्तरागमखं सच्छिष्यं च जम्बूखामिनमपेक्ष्य परम्परागमतां प्रतिपिपादयिषुः | अथवा अनुगमारूयस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारखभावं प्रस्तुत ग्रन्थस्वार्थतो महावीर निर्गतखमभिधित्सुः सूत्रकारः- 'तेणं काले 'मित्यादिकमुपोद्यात ग्रन्थं तावदादावाह
ॐ नमः सर्वज्ञाय । ते णं काले णं ते णं समए णं चंपानामं नयरी होत्था वण्णओ ॥ (सूत्रं १ ) तत्र योऽयं शब्दः स वाक्यालङ्कारार्थः, ते इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते!' इत्यादिषु ततोऽयं वाक्यार्थो जातः - तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययोः कः प्रति
For Parts Only
~11~