________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [१], मूलं [५६४-५६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५६४-५६५]
धिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति ॥ एतदेव चतुर्विंशतिदण्डके दर्शयति-'नेरहए'इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति-'जीवे 'मित्यादि, 'साहिगर
णि'त्ति सह-सहभाविनाऽधिकरणेन-शरीरादिना वर्तत इति समासान्तेन्विधिः साधिकरणी, संसारिजीवस्य शरीरेन्द्रि-2 ६ यरूपाधिकरणस्य सर्वदैव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्रायधिकरणापेक्षया तु स्वस्वामिभावस्य तदविरतिरूपस्य सहवत्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव वक्ष्यति-'अविरई पहुंच'त्ति, अत एव संयतानां शरीरादिसनावेऽप्यधिरतेरभावान साधिकरणित्वं, 'निरहिगरणिति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवीत्यर्थः, स च न भवति, अविरतेरधिकरणभूताया अदरवर्तित्वादिति, अथवा सहाधिकरणिभिः-पुत्रमित्रादि-| [भिर्वर्त्तत इति साधिकरणी, कस्यापि जीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो| निरधिकरणीत्यपि मन्तव्यमिति ॥ अधिकरणाधिकारादेवेदमाह-जीवे ण'मित्यादि, 'आयाहिगरणित्ति अधिकरणीकृष्यादिमान आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृष्यादि नास्ति स कथमधिकरणीति !, अत्रोच्यते, अविरत्य-|| पेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'पराहिगरणित्ति परत:-परेषामधिकरणे प्रवर्त्तनेनाधिकरणी पराधिकरणी, 'तदुभयाहि गरणि'त्ति तयोः-आत्मपरयोरुभयं तदुभयं ततोऽधिकरणी यः स तथेति ॥ अथाधिकरणस्यैव हेतुप्ररूपणा
थेमाह-'जीवाण'मित्यादि, 'आयप्पओगनिबत्तिए'त्ति आत्मनः प्रयोगेण-मनःप्रभृतिव्यापारेण निर्वतित-निष्पा-18 |दितं यत्तत्तथा, एवमन्यदपि द्वयम् ॥ ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिर्वर्त्तितादि भवि
RECORREST
दीप अनुक्रम [६६४-६६५]
aviralaunasurary.orm
~306~