SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४४१ -४४३] दीप अनुक्रम [५३४ -५३६] [भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [–], अंतर् शतक [ - ], उद्देशक [२], मूलं [४४१-४४३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः सिद्धिकशुन्यता लोकस्य स्यात् नैवं, समयज्ञातात्, तथाहि सर्व एवानागतकालसमया वर्त्तमानतां लप्त्यन्ते“भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ १ ॥" इत्यभ्युपगमात्, न चानागतकालसमयविरहितो लोको भविष्यतीति । अथैतामेवाशङ्कां जयन्ती प्रश्नद्वारेणास्मदुक्कसमयज्ञातापेक्षया ज्ञातान्तरेण परिहर्तुमाह-- 'जह ण'मित्यादि इत्येके व्याख्यान्ति, अन्ये तु व्याचक्षते -सर्वेऽपि भदन्त ! भवसिद्धिका जीवाः सेत्स्यन्ति ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि, अन्यथा भवसि - |द्धिकत्वमेव न स्यादित्यभिप्रायः, 'हंते'त्याद्युत्तरम् । अथ यदि ये केश्चन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपीत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनाद् भव्यशून्यता जगतः स्यादिति जयन्त्याशङ्कां तत्परिहारं च दर्शयितुमाह- 'जह णमित्यादि, 'सागाससेदित्ति सर्वाकाशस्य बुद्ध्या चतुरस्रप्रतरीकृतस्य | श्रेणिः- प्रदेशपङ्किः सर्वाकाशश्रेणिः 'परितत्ति एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता 'परिवुड'ति श्रेण्यन्तरैः परिकरिता, स्वरूपमेतत्तस्याः, अत्रार्थे वृद्धोक्ता भावनागाथा भवन्ति- “तो भन्नइ किं न सिझति अहव किमभवसा| बसेसत्ता । निलेवणं न जुज्जर तेसिं तो कारणं अन्नं ॥ १ ॥ " अयमर्थः यदि भवसिद्धिकाः सेत्स्यन्तीत्यभ्युपगम्यते ततो भणति शिष्यः- कस्मान्न ते सर्वेऽपि सिद्ध्यन्ति ?, अन्यथा भवसिद्धिकत्वस्यैवाभावात्, अथवाऽपरं दूषणं - कस्मादभव्य सावशेषत्वाद्-अभव्यावशेषत्वेनाभव्यान् विमुच्येत्यर्थः तेषां भव्यानां निर्लेपनं न युज्यते ?, युज्यत एवेति भावः, १-तदा भणति किं न सिध्यन्ति अथवाऽभव्यावशिष्टत्वं (भवति) निर्लेपनं न युज्यते तेषां तद्भव्यत्वादन्यत्कारणं वाच्यं सिद्धेः ॥ १ ॥ Education Internation जयंति श्रमणोपासिका एवं तस्या प्रश्ना: For Penal Use On ~27~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy